________________
सूत्र २९] स्वोपज्ञभाष्य टीकालङ्कृतम्
३८३ ध्रुवं तत् सत् । अतोऽन्यदसदिति ॥ यदुत्पद्यते इत्यादि । यदिति सामान्यमात्राभिधायिना सर्वनाम्ना धर्मास्तिकायादिपञ्चकपरिग्रहः, परस्परापेक्षाः समुदिता एवोत्पादादयः सल्लक्षयन्ति, तत्र द्रव्यनयाभिप्रायेणाकारान्तराविर्भावमात्रमुत्पाद औपचारिकः, परमार्थतो न किश्चिदुत्पद्यते सततमवस्थितद्रव्यांशमात्रत्वात् , तथा व्ययः-तिरोभावलक्षणः, पूर्वावस्थायास्तिरोधानं विनाशः, यतो द्रव्यमेव तथा तथा विवर्तमानमुत्पादविनाशव्यवस्थया व्यपदिश्यते, प्रज्ञायते च पूर्वक्षणोच्छेदेन क्षणान्तरात्मलाभ उत्पादपर्यायस्य, तस्यैव क्षणस्य निरन्वयोच्छेदिता विनाशः, द्रव्यास्तिकस्य ध्रौव्यमन्वयी सामान्यांशः, पर्यायस्योपचारात्, सन्तानमात्रं ध्रौव्यशब्दाभिधेयमेकः सन्तानस्तद्वलेन च प्रत्यभिज्ञादिप्रसिद्धिः, तदेतत् त्रितयमपि प्रतिपादयत्युभयनयसङ्गत्या वस्तुसद्भावप्रतिपत्तये, न ध्रौव्यमुत्पादव्ययशून्यं केनचित् प्रमाणेन गोचरीकर्तुं शक्यते, नाप्युत्पादव्ययौ सामान्यांशवियुताविति, यदुत्पद्यते यद् व्येति यच्च ध्रुवं तत् सद् विद्यते तदस्तीति, सामादिदमापन्नम्-अतोऽन्यदसदिति, अत इत्युत्पादादिसमुदितस्वभावाद् यदन्यत् तदसत्, तच्च किं ? समुदायादपकृष्ट एकक उत्पादो वा विनाशो वा ध्रौव्यं वा उत्पाद विनाशौ वा उत्पादध्रौव्ये वा, विनाशध्रौव्ये वा, इतरनिरपेक्षस्य तादृशांशस्याभावादसद्विषयत्वमसयवहारप्रतिबन्धिता चेति नानुपाख्योऽसच्छब्दवाच्यः, शब्दव्यवहारायोग्यत्वात् ।। ननु च द्रव्यपर्यायनयो स्वतन्त्रत्वात् द्वावपि विजिगीषू स्वविषयोपमर्द परस्परं न सहेते, ततश्च पुनरपि सीमन्तितमेव वस्तु न वस्तुतायामवतिष्ठतेति । उच्यतेपर्यायनयस्य तावदुत्पादव्ययलक्षणस्य स्वातन्त्र्यं नास्ति द्रव्यास्तिकेनाङ्कुशितत्वात । नह्युत्पादो नाम कश्चिद् धर्मोऽस्त्यभूतभवनात्मकः, स चोत्पादो द्विधा कल्प्येत-प्रायोगिको
वैस्रसिकश्च, प्रायोगिकः पुरुषकारनिर्वयः, सोऽपि द्विधा-अनभिसन्धिउत्पादादेर्भेदाः कृतोऽभिसन्धिकृतश्च, तत्राद्यः कायवाक्स्वान्तभेदेन पञ्चदशप्रकारः, ते
च कायादयः समुदायात्मकाः, समुदायश्चासन् साथेरथचक्रादिवत्, स्वाङ्गसमुदायमात्रत्वान्न सार्थो नाम कश्चित् परमार्थतोऽस्ति, रथो वा पुरुषकूवरादिव्यतिरिक्तः, स चाभावत्वात् सार्थरथादिः कथमुत्पद्येत ? एवं कायादयोऽपि पुद्गलसमुदायरूपाः, समूहश्च समूहिमात्रमतस्तत्रापि न कस्यचिदुत्पादः, कायादेः परमार्थतोऽसत्त्वात्, अभिसन्धिपूर्वकस्तूत्पादः कायादियोगात् समग्रवास्यादिकरणापेक्षात् स्तम्भकुम्भादीनां प्रेक्षापूर्वकारिपुरुषक्रियाजन्यत्वात् प्रयोगजः, सोऽप्येवमेव समुदायविषयः समुदायश्चासत्त्वादेव नोत्पद्यत इत्युत्पादाभाव एव, अन्वयांशनिरपेक्षत्वान्न प्रायोगिक उत्पादः सम्भवतीत्यर्थः। वैससिकोऽपि नास्त्युत्पादः, विस्रसेति स्वभाववचनसंज्ञाशब्दः, स्वाभाविको वैससिकः, तत्र धर्माधर्मव्योमात्मपुद्गलद्रव्याणामिमा वृत्तयो यथाक्रमं स्थितिगत्यवगाहोपयोगस्पर्शशब्दादिलक्षणाः स्वसद्भावाः, नहि तेषां धर्मादीनां गत्यादयो धर्माः पर्याया वा भवन्ति, यदि भवेयुस्त
१'वासादि ' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org