Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ तस्तेषामेतद् विलक्षणमन्यदेव रूपं स्याद गत्याधुत्पादसद्भावे, न चान्य द्रूपं लक्ष्यते भुजगप्रसारणाकुण्डलिकतोत्फणविफणादिवत्, फणिनो हि स्वभावभूताकृतकसंस्थानान्तराभिव्यक्तिमाप्रत्वात प्राच्यफणिरूपानन्यत्वात् तद् द्रव्यावस्थानात कुत उत्पादः १ किं हि तत्रोत्पन्नं विद्यमानं वा नाभिव्यक्तमित्यत उत्पादाभाव एव, इत्येवं धर्मादीनामपि गत्यादीनामुत्पादाभावः स्वखपावस्थानान्तरमात्रत्वाजलतरङ्गतुहिनपटलादिवत् , कुतः स्वाभाविक उत्पादः १ । न चोत्पादस्यान्यः प्रकारो विद्यत इति, तस्मान्नधास्त्युत्पादः। एवं द्रव्यपर्यायनयद्वयापेक्षमस्तित्वमुत्पादस्य नास्तित्वं च भावितमात्मपुद्गलद्रव्यविषयम् ॥ अथाकाशधर्माधर्मेष्वविक्रियात्मकेपूत्पादस्याभावात् कुतस्तत्रोत्पादानेकान्त इति । उच्यते-तेष्वपि स्वाभाविक उत्पादः समुदायजनितः एकत्विकश्च द्विप्रकारोऽप्यस्ति भजनया । यथैव ह्यात्मन्यौपशमिकादीनां भावानामात्मन एव तेन तेनाकारेण वृत्तिरुत्पादः, स्पशोदीनामणुषु, स्पर्शशब्दादीनां च स्कन्धेषु स्वाभाविक उत्पादस्तथा व्योमादिष्ववगाहगतिस्थितयो व्योमादिस्वभावास्तेषां परिणामाः, त एव ह्याकाशादयोऽवगाहाद्याकारेणोत्पन्नाः, तस्य चावगाहादेरुत्पादस्य प्रदेशरूपता यथाऽऽत्मनोऽसङ्ख्याताः प्रदेशास्तत्समुदायश्चात्मा भवति, आकाशस्य चाकाशत्वं स्वाभाविकमकृत्रिममेव, यस्तस्यावगाहोत्पादोऽसावप्यकृत्रिमत्वात् स्वाभाविक एव, यस्मादाकाशं शुषिरमवकाशदातृत्वस्वभावम्, तथा धर्माधर्मी गतिस्थित्यनुग्रहहेतुस्वभावौ,आत्माऽपि ज्ञानात्मकत्वादुपयोगस्वभावः,पुद्गलाश्च मूर्तित्वात् स्पादिस्वभावाः । एवमवगाहादेरुत्पादस्य स्यात् स्वाभाविकत्वम् , तथा स्यादस्वाभाविकत्वं समुदायकार्यत्वात् । यथा पटो भूयसां तन्तूनां समुदायेन जन्यते, अवगाहादेरपि यथोक्त उत्पादः समुदायजन्यत्वादस्वाभाविकः । यस्मादवगाहोऽवगाहावगाहकद्वयसमुदायात्मकः, गतिरपि गन्तृधर्मद्रव्यद्वयसमुदायात्मिका, स्थितिरपि स्थात्रधर्मद्रव्यद्वयसमुदायस्वभावा, उपयोगो विज्ञातज्ञेयसमुदायात्मकः, स्पर्शादयोऽपि स्पर्शनादिस्पृश्यादिसमुदायात्मकाः, तस्मात् समुदायात्मकत्वात् स्यादस्वाभाविकः, समुदायनिरपेक्षाणामेषामवगाहादीनामभावादेवं स्यात् समुदायकृतः स्यादेकत्विकः, कथम् ? उत्पादो शवगाहस्याकाशेऽवगाहकानुप्रवेशे व्यक्तिः, सा च व्यक्तिर्योमन्येव नान्यत्रापि, तस्य तु व्यञ्जकमेवावगाहकं नोत्पादकम्, व्यञ्जक चाकाशादन्यदेव भवति, व्यङ्ग्याद् घटादेवि प्रदीपादि, ततश्चावगाहस्यैकत्विक उत्पादः, स्यादनकत्विकःप्राक् प्रतिपादितवत्, ततश्च नमोऽवगाहोऽप्यनित्य एव गुणत्वात् पत्रनीलतावत, नमसोऽवगाहत्वलक्षणमुपकारः, स चावगाढारमन्तरेण जीवं पुद्गलं वा नामिव्यज्यत इति अवगाढजीवादिसंयोगमात्रमवगाह इति सिद्धम् । संयोगश्चोत्पादी संयुज्यमानवस्तुजन्यत्वात् बगुलसंयोगवत्, यथा चावगाह आकाशस्यैवं गतिस्थित्युपयोगरूपादयो गतिमदादिद्रव्यसंयोगमात्रत्वादुत्पादादिस्वभावा इति सर्वेऽप्युत्पादविगमध्रुवस्वभावा इत्यर्थः। न च पयोयादास्मीयात् किश्चिद् द्रव्यमेकान्तभित्रमुपलभ्यते, यत् सम्भाव्येत तस्मिन् पर्याये परखभावभूते
१ 'कुण्डलिकाता' इति क-ख-ग-पाठः । २ 'वादद्व्या ' इति क-ख-पाठः।। 'विकं न कृत्रिम' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518