________________
३७६
तत्वार्थाधिगमसूत्रम्
[ अध्याय: ५
,
त्याख्यायते, न चालोकग्रहणे सति रूपबुद्धिर्भवति चित्ररूपवत् सालोकस्य रूपस्य ग्रहणात्, आलोके तु सति स्याद् रूपबुद्धिः ॥ पुनराशङ्कते - प्रत्यक्षानुमानाभ्यामननुभूते समुदाये, कथं स्मृतिरुत्पद्यत इति, न, अनेकान्तात्, विकल्पितेऽपि हार्थे स्मृतिर्दृष्टा बन्धुमत्याख्यायिकादौ । अस्ति च घटादिसङ्केतप्रभवः समुदाये विकल्पो वनादिविकल्पवत्, अन्यथा वनसेनास्मरणमपि न स्यात्, एवं च न रूपादिव्यतिरिक्तं द्रव्यं समस्तीति व्यवस्थितम् ॥ पुनरप्याह - अस्त्येवान्यद् द्रव्यम्, बुद्धिभेदात्, अन्यैव हि रूपाधीरन्या च घटबुद्धिः । अयं च बुद्धिभेदोऽन्यत्वे सति भवति, नान्यथा, तस्माद् रूपादिद्रव्ययोरन्यत्वं बुद्धिभेदाद् गवादिवदिति, अयुक्तमेतदपि, यदि तावदुभयोरन्यत्वं साध्यते, द्रव्याभावादेक देशाश्रयासिद्धः, नहि सतोऽसतश्चैकमेव विशेषणं न्याय्यम् । अथ रूपादिभ्यो द्रव्यस्यान्यत्वं साध्यते, तदसमञ्जसम् नहि द्रव्यं नाम किञ्चदस्ति स्वरूपेण यस्यान्यत्वं साध्येत, सिद्धे धर्मिणि धर्मविप्रतिपत्तौ साधनसद्भावात्, अनैकान्तिकच पानकादिभिर्बुद्धिभेदादिति, विनाव्यर्थान्तरभूतद्रव्यकल्पनया मनीषाभेदस्य सद्भावात् रूपाद्यवयवानां सन्निवेशविशेषाद् बुद्धिभेदः, यथा गुडोदकाभ्यां पानकं नार्थान्तरमथ च बुद्धिभेदः, एवं विपङ्क्त्यादिष्वपि द्रष्टव्यम् । तस्मान्नोत्पादव्ययव्यतिरिक्तः कश्चिदस्ति धौव्यांशो यमाश्रित्य प्रज्ञाप्येत द्रव्यमेकमभेदप्रत्ययहेतुरिति । स्वात्मव्यतिरिक्तावयव्यारम्भकास्तन्तव इति चेत्, अयुक्ततरमिदं तुलानतिविशेषाभावात्, यस्य ह्यवयवगुणा गुणान्तराण्यारभन्तेऽवयविनि “ द्रव्याणि द्रव्यान्तरमारभन्ते गुणा गुणान्तरम्" इति वचनात् तस्य दशपलपरिमाणभाजस्तन्तवः पटे गौरवान्तरमारभेरन्, अतस्तुलानतिविशेषाग्रहणान्नान्योऽवयव्यवयवेभ्य इति धर्माविशेषनिराकरणात् पक्षापवादो वाक्यार्थः, पटश्च तन्तुषु समवयन् प्रतितन्तु वर्तेत कार्त्स्न्येन देशेन वा ? न तावदेकत्र तन्तौ कृत्स्नः समवेतः, सन्निकृष्टेऽपि तन्तावग्रहणात्, स्तम्भादिसन्निकर्षे मेर्वाद्यग्रहणवत्, यश्च यस्मिन् समवेतः स तत्सन्निकर्षे गृह्यते, यथा रूपादिः, अवयवित्रहुत्वप्रसङ्गश्थ, अथ तन्तौ पटस्य प्रदेशो वर्तते, न तर्हि कचिदेकः पटो वर्तत इति प्राप्तम्, न च तन्तुव्यतिरेकेणान्यः पटस्य देशोऽस्ति येन देशेनासौ तन्तौ वर्तेत, तन्तुरेव च तस्य देश इष्यते वैशेषकैः, न च तस्यैव तस्मिन् वृत्तिर्युज्यते, सावयवश्वावयवी स्यादिति । एवमवस्थितैकद्रव्याभावात् सर्वमुत्पादविनाशलक्षितमर्थक्रियासमर्थं वस्तु, उत्पाद - विनाशशून्याश्च शशविपणादयो न वस्तुव्यपदेशभाज इति प्रतीतम् । न च परमार्थतः कारणप्रकृतिरस्ति द्रव्यसत्ता यत्रावगम्यते भव्यत्वात्, कारणं कार्यमिति कल्पनामात्रमेतत्, प्रतीत्यप्रत्ययमात्रवृत्तित्वाद् दीर्घत्व हस्वतावत् तन्तुष्टयोर्मृद्घटयोर्वा न किञ्चित् स्वसिद्धं रूपमस्ति, तन्तुषु मृदि वा यः कारणप्रत्ययः स पटकुम्भाद्यशेषार्थान्तरापेक्षया न स्वसिद्धः, तस्मात् तन्तुपटयोर्यस्तन्तुपटप्रत्ययः स इतरेतराश्रयत्वादसदर्थविषयः, तथा मृद्घटयोरवत्कारणकार्ययोगभाव एव स्वरूपस्यासिद्धत्वाद् व्योमोत्पलादिवदिति । अत्रोच्यते - प्रागुत्पतद्भिरेवास्माभिरभ्यधायि स्थित्युत्पत्तिविनाशस्वभावं सकलमेव सद्, एतौ च द्रव्यपर्यायौ
द्रव्यस्यान्यत्वम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org