________________
सूत्रं २९ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
"
परस्परनिरापेक्षौ न सतो लक्षणम्, द्रव्यास्तिकस्य धौव्यमात्रवृत्तित्वात् पर्यायस्योत्पत्तिव्ययमात्रवृत्तित्वात् परस्परापेक्षौ तु वस्तुस्वतच्यम्, न च द्रव्यांशः पर्यायांशो द्रव्यपर्यायवादः वा परमार्थतः कश्चिदस्ति परिकल्पितत्वात् ।। यथाऽऽह -
" नान्वयो भेदरूपत्वा न भेदोऽन्यरूपतः । मृद्भेदद्वयसंसर्ग-वृत्तिर्जात्यन्तरं घटः ॥
22
अत एकान्तवादपरिकल्पिताद् वस्तुनोनेकान्तवादिनः संमतं वस्तु जात्यन्तरमेवाविभक्तरूपद्वय संसर्गात्मकत्वात् नरसिंहादिवत् यथा
"न नरः सिंहरूपत्वा-न सिंहो नररूपतः । शब्दविज्ञान कार्याणां भेदाज्जात्यन्तरं हि तत् ॥ "
तदेवं घटाद्यपि कल्पिताद् द्रव्यार्थरूपात् पर्यापार्थरूपाच्च जात्यन्तरमित्येवंविधप्रक्रियाभ्युपगमेन च सर्वमे कनयमतानुसारि दूषणमुपन्यस्यमानमसम्बद्धमेवा पनीपद्यते, यतश्चैत्रमतो भेदाभेदस्वभावेऽपि वस्तुनि कदाचिदभेदप्रत्ययः स्ववासना वेशात् केवलमन्वयिन मंशमुपगूहमानः प्रवर्तते, कदाचिद्भेदमात्रवादिनो भेदावलम्बनः प्रत्ययः प्रादुरस्ति, स्याद्वादिनस्तु जिज्ञासितविवक्षितार्थायनज्ञानाभिधानस्य द्रव्यपर्याययोः प्रधानोपसर्जन भावापेक्षया समस्तवस्तुविषयव्यवहारप्रवृत्तिर्वस्तुत्वमने काकारमेव ॥ यथाऽऽद्द
Jain Education International
66
सर्वमात्रासमूहस्य, विश्वस्यानेकधर्मणः ।
सर्वथा सर्वदाभावात्, कचित् किञ्चिद् विवक्ष्यते ॥ "
३७७
इति । भवतु नाम विवक्षावशाद् वचनव्यवहारः, चक्षुरादिज्ञानं पुनः प्रवर्तमानं न सहते कालान्तरम्, प्रथमसम्पात एव स्वविषयग्रहणात्, तद् यदि भेदाभेदस्वभावं वस्तु किमिति प्रथमत एव तदुल्लेखमिन्द्रियज्ञानं नोत्पद्यते, अतो मनोविज्ञान विकल्पमात्रं द्रव्यपर्यायाविति । अत्रोच्यते-चक्षुरादिविज्ञानान्यवग्रहादिक्रमेणोत्पद्यन्ते, अर्थावग्रहश्कसामयिकः प्राक, ततो मुहूर्ताभ्यन्तरवर्तीहाज्ञानं, ततोऽपायज्ञानमनन्तरं प्रमाणमिन्द्रियमेव व्यापारयतो निश्चिताकारमुपजायते, तद्भावे भावात् तदभावे चाभावात्, निश्चयश्चक्षुरादि विषयोऽप्यस्ति मनोविषयश्चाष्टाविंशतिविधत्वान्मतेर्बहादिभेदेन वा बहुतरविकल्पत्वाद् अस्त्येवेदं निश्चिताकारमिन्द्रियस्य ग्रहणं द्रव्यपर्यायाविति, मानस मपि यदि भवति, भवतु नाम को दोषः १ सर्वथा द्रव्यव्यतिरिक्तता मनोविज्ञानमेवेदं तच्चाभूतं विकल्पमात्रमित्येतदसत्, अतो यदवाचि - ननु रूपादिव्यतिरेकेण मृद्द्रव्यमित्येकवस्त्वालम्बनश्चाक्षुषः प्रत्ययः प्रत्याख्यातुमशक्य इति तत्स्वमतिजृम्भितसमुत्थापितविकल्पमात्रम्, स्याद्वादिप्रक्रियानवत्रोधात्, यतो न रूपादिभ्यो ऽत्यन्त
१' बादि' इति क-पाठः । २ • समयिक' इति ग-पाठः ।
*
For Personal & Private Use Only
www.jainelibrary.org