Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
३७४ तत्त्वार्थाधिगमसूत्रम्
[ अध्याय: ५ गम्याभिगमोपायविषयेण प्रश्नेनोपक्रान्तं चोदयित्वाऽतः प्रतिवचनमपि तथैवाचार्येणोच्यते, येन लक्षणेन प्रमाणानि तद्विषयश्च लक्ष्यते तद्यापि लक्षणमभिधीयत इति । तच्चेदं सूत्रम्
सूत्रम्-उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ५-२९ ॥ भा०-उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम् ; यदुत्पद्यते, यद् व्येति, यच्च ध्रुवं तत् सत् ; अतोऽन्यदसदिति ॥ २९॥
टी-उत्पादव्ययाभ्यामित्यादि । समासतश्चायं सूत्रार्थ:-स्थित्युत्पत्तिविनाशस्वभाव सद् , अवश्यन्तयैव स्थित्युत्पादविनाशाः समुदिता एव सत्वं गमयन्ति । स्थित्यादयो हि सत एव भवन्ति, न जातुचिनिरुपाख्यस्य, केनचिदप्याकारणानुपाख्यायमानत्वादिति । यत् कथंचिन्न ध्रुवं न चोत्पद्यते न च व्येति तन सदिति । इदं च सूत्रं द्रव्यपर्यायनयद्वयगर्भम् यतो द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादस्वभावौ मूलं सग्रहादिप्रपञ्चस्य, तन्निरूप्यं च सर्वे वस्तु, ते च सङ्ग्रहादयः प्रथमाध्या विध्यपवादस्वरूपतया, निरूपिताः, विशेषविवक्षया तु किश्चिदुच्यते-उत्सर्गो विधिर्व्यापित्वमप्रतिषेधः, न ह्यसौ द्रव्यनयो विशेषमिच्छति, विशेषो धन्यप्रतिषेधेनात्मानं प्रतिपादयति भावान्तरत्वात् , न चाभावः प्रतिषेधमात्रम् । प्रागभावो हि घटस्य मृत्पिण्डः प्राग्घटोत्पादाद् घटस्याभावः पिण्ड एवानाविर्भूतघटाकारः १, प्रध्वंसाभावोऽपि कपालाद्यवस्थाप्रध्वंसो विनाशः, स चावस्थान्तररूपत्वाद् वस्तुस्वभावं न जहाति, वर्णकविरचनामात्रप्रापितनटान्यत्ववदुत्फणविफणादिसंस्थानमात्रत्यागिसर्पवद् वा २; इतरेतराभावोऽपि स्तम्भकुम्भादीनां परस्परव्यतिरेकरूपत्वान्नावस्तु, घटो हि घटसंस्थानादिव्यतिरेकापेक्षस्वरूप एवाभावशब्दवाच्यः, समस्तवस्तुनश्च तथाविधत्वाभ्युपगमाद् वस्त्वेव भवतीतरेतराभावः ३;
अभावस्या- न चात्यन्ताभावः कश्चिदनुपाख्योऽस्ति, सर्वप्रकारमनुपाख्यायमानप्रतिषेधात्मकता स्वरूपानधिगमात्, शशविषाणादेर्वस्त्ववस्थान्तरत्वादुपलब्धिविषयत्वम् , शशविषाणाभावो हि मौण्डथं समतलमस्तकस्वरूपोपलब्धिनात्यन्ताभावः, विषाणसद्भावादन्यत्र शशकमस्तकसद्भावाचेतरेतराभाव एव, समवायसम्बन्धप्रतिषेधमात्रत्वाद्, वा अन्यत्र च तस्य सत्वान्नात्यन्ताभावः, नामकर्मपरिणामवशाचापत्यवत्वे वन्ध्यायाः केन तद्वत्ता निवार्यते, नहि पूर्वोपात्तकर्मविपरिणामन्यतिरेकेण तज्जीवतथाविधपरिणत्यभावे वा उत्तरजन्मप्रतिपत्तिरमूलत्वात् ४; अतः सर्व एव पदाथो द्रव्यक्षेत्रकालभावभेदापेक्षाः कदाचिदुपलभ्यन्ते प्रत्यक्षादिना, प्रमाणेनावधार्यन्ते, कदाचिदुपलब्धाः सन्तोऽपि भूयो नोपलभ्यन्ते, द्रव्यादिविप्रकर्षात, सत्यपि मतिज्ञानावरणीयकर्मक्षयोपशमकारणसाकल्ये
१' उत्पादव्ययौ ध्रौव्यं च युक्तं ' इति घ-पाठः । २ सामान्यविशेषोभयाग्राहित्वान्नैगमस्य संग्रहन्यवहारयो. रन्तर्भावात् । ३ पूर्वः पूर्वो विधिः परःपरोऽपवाद इति। ४. प्रतित ' इति क-ख पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518