Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 404
________________ सूत्र २८] .. स्वोपज्ञभाष्य टीकालङ्कृतम् ३७३ तसान्नैन्द्रियकत्वे सङ्घातः केवलो हेतुर्भवति, नापि परिणामः, किं तहिँ ? उभाभ्यां भेदसङ्घाताभ्यामेककालाभ्यां चाक्षुषा भवन्ति, चक्षुर्ग्रहणाच समस्तेन्द्रियपरिग्रहः,पश्यति-उपलभते इति चक्षुः, स्पर्शरसगन्धशब्दा अप्येवंविधपरिणाममाज एव निजोपलम्भनरुपलभ्यन्त इति ॥ अचाक्षुषास्त्वित्यादि । ये पुनरतीन्द्रिया घ्यणुकादयोऽनन्ताणुकपर्यवसानाः स्कन्धाः सूक्ष्मास्ते यथाभिहितात् त्रिविधात् कारणात् सङ्घातादेरुत्पद्यन्ते। न चेदमाशङ्कनीयम्-स एव पादरास्त एव च पुनः सूक्ष्मा इति, यतो विचित्रपरिणामाः पुद्गलाः कदाचिद् बादरपरिणाममनुभूय जलधरशतक्रतुचापसौदामिनीलवणसकलादिकमथ पश्चादलक्षणीयपरिणाममात्मस्वरूपावस्थानस्वभावमतिसूक्ष्ममाददते करणान्तरग्रहणलक्षणतां वा भजन्ते लवणहिङ्गुप्रभृतयः, सूचनीयपरिणामश्च जनित्वा पुनरपि वियति परितः सकलदिगन्तरावरोधिवारिधरत्वादिना स्थूलेनाकारेण परिणमन्ते । तुशब्दः पुनःशब्दार्थे, चशब्दः समुच्चये, इतिशब्दः प्रकृतपुद्गलप्रकरणपरिसमापनार्थः ॥ २८ ॥ भा०-अत्राह-धर्मादीनि सन्तीति कथं गृह्यत इति ? । अत्रोच्यते-लक्ष. णतः । किञ्च सतो लक्षणमिति ? । अत्रोच्यते-- टी--अत्राहेत्यादिसम्बन्धग्रन्थः। धर्मादीनां द्रव्याणां यथासम्भवं गतिस्थित्युपग्रहादिलक्षणमुक्तं वैशेषिकम् , अधुनाऽन्तरङ्गव्यापिलक्षणजिज्ञासया सन्दिहानः प्रश्नयति-धर्मादीनि सन्तीति कथं गृह्यत इति । अस्ति चात्र सन्देहबीजम्-किं विकारग्रन्थिरहितं सत्तामात्रमेते धर्मादयः आहोस्विद् विकारमात्रमुत्पाद विनाशलक्षणमयोभयम् ? इत्येवमनेकप्रकारसम्भवे सन्देहः, कथं-केन प्रकारेण, धर्मादीनि सन्ति-विद्यन्त इति । इतिशब्दो हेतौ। येन हेतुना सत्त्वमेषां निश्चीयते तद्विषयत्वमितिकरणस्य, वाक्यपर्यन्तवर्तीतिशब्दः प्रष्टव्यार्थेयत्ताख्यापनार्थः। गृह्यत इति ग्राह्य, निश्चयमित्यर्थः। किं तदस्तित्वमेपामिति । अथवा धर्मादीनि सन्तीत्यस्तित्वमेव सन्दिग्धे परः । ननु च येषां गत्याधुपकारेणानुमितमस्तित्वं प्राक् ते प्रसिद्धसत्ताका एव, कुतः सन्देहः १ अयमभिप्रायः प्रष्टुः-गत्याधुपग्रहकारिणः किल धर्मादयः केऽपीत्यप्र सिद्धसत्ताकेनैव प्रपत्त्राभ्युपेतम्।इदानीं तु प्रश्नयति-कथं पुनरेषां धर्मादीनां सल्लक्षणसूत्राव. विद्यमानत्वं निश्चेयमिति ? । आचार्य आह-अत्रोच्यते-लक्षणतः ॥ __ आचार्यस्यायमभिप्रायः, सङ्ग्रहादेकीभावादुत्पादादयः सल्लक्षणमस्तिशब्दविषयः, एवंविधाश्चैत उपलभ्यन्त इत्यतः सामान्येन तावदुपन्यस्यति-लक्षणत इति । पुनरपि सामान्याभिधाने सन्दिहान आह-किश्च सतो लक्षणमिति ? किं पुनः सतो लक्षणं, लक्ष्यते येन लक्षणेन प्रमाणानि तद्विषयश्च, लक्ष्यते येन सदेतदिति । अत्रोच्यते-इत्याचार्यः प्रतिजानोते, सत्वलक्षणम् , तेषां धर्मादीनामस्तित्वाव्यभिचारिलिङ्गमिदमुच्यते ॥ एतदुक्तं भवति-धमाधमोकाशपुद्गलजीवाः पञ्चास्तिकाया जगतः स्वतत्वम् , तत्र जीवद्रव्यं धर्मादीनां ग्राहकं स्वरूपस्य चेति, सङ्खपतः शब्दार्थज्ञानानि सत्त्वलक्षणलक्ष्याणीति, अतः सकलाधि तरणम् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518