Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
३७० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः५ स्तिकः तदभिशायादैक्यम् , एवं विश्वपरिणामप्रपञ्चस्थितिभाञ्जि द्रव्याणि स्वात्मन्यविद्यमानैरेव पर्यायतः कैश्चिद धम॑रुत्पद्यन्ते कैश्चिद् विद्यमानैरपि धमॆविनश्यन्ति, कैश्चित्पुनरन्वयिभिः पर्यायैर्नित्यानि ध्रुवाण्येव सर्वद्रव्याणीति मौनीन्द्रदर्शनमनवद्यम् ॥
सम्प्रति प्रस्तुतमनुश्रियते । द्विप्रदेशस्य स्कन्धस्य परमाण्वन्तरेण योगे त्रिप्रदेशस्कन्धोत्पादः,चशब्दात् त्रयाणां च परमाणूनां सङ्घातपरिणामे व्यणुकस्कन्धस्योपजननम् । एवमित्यादिनाऽतिदेशं करोति ॥ शीर्षप्रहेलिकास्थानपर्यन्तवति द्विसङ्ख्योपक्रमं गणितम् , तत्राप्युक्तेन न्यायेन भावना कार्या, ततः परं गणितविषयातिक्रमादसन्ख्येयो राशिः, तत्रापि संघातपरिणामभावना तुल्यैव, ततोऽप्यसङ्ख्येयादुपरि बहुबहुतरबहुतमपरमाणुप्रचयोऽनन्तकराशिः, तस्मिन्नपि संहतिपरिणतिभावना सदृश्येव, अनन्तानन्तानां चेत्यनेनानन्तकराशेरनन्तानि स्थानानि भवन्तीति प्रदर्शयति । एवं तावत् संघातात् परस्य प्रदेशाः स्कन्धतयोपजायन्त इति ॥
अधुना द्वितीयं प्रकारं वक्तुकाम आहभा०-एषामेव भेदाद् द्विप्रदेशपर्यन्ताः॥
टी०-घणुकादिक्रमेणानन्तानन्तपरमाणुकपर्यवसानाः स्कन्धाः संघाताद ये समुत्पभास्तेषां पर्यन्तवर्तिनः स्कन्धादेकोऽणुर्यदा भिन्नः पृथग्भवति तदैकाणुभेदात् तन्न्यूनः स्कन्धः समुत्पद्यते, एवं द्विव्यादिपरमाणुभेदक्रमेणाधोऽधो यावत् द्विप्रदेशस्कन्धोत्पाद इति भावनीयम् ।
भा०–एत एव च संघातभेदाभ्यामेकसामयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते । अन्यसंघातेनान्यतो भेदेनेति ॥२६॥
अत्राह-अथ परमाणुः कथमुत्पद्यते इति ? । अत्रोच्यते
टी-एत एव चेत्यादिना तृतीयविकल्पभावना, बहुवचननिर्देशात् कृतैकशेषो निर्देशः, संघातश्च भेदश्च संघातभेदौ संघातभेदौ च संघातभेदौ च संघातभेदाः, एत एव हानन्तरोक्ता व्यणुकादयः स्कन्धाः सङ्घातभेदाभ्यामेकसामयिकाभ्यां उद्भवन्ति, अविभागीयः कालः परमनिरुद्धश्च समयः स तत्रैकस्मिन् समये अभिन्नकाले घणुकस्कन्धादेको. ऽणुर्भिद्यते परः संहन्यते समकमेवेत्यतः सयातभेदाभ्यामुत्पद्यन्ते, समये भवः सामयिकः, एकशब्दः समानार्थाभिधायी, एकशब्दः समानार्थे, तद्यथा-'तेनैकदिक्' (पा० अ० ४, पा० ३, मू० ११२ ) सुदाम्ना पर्वतेनैकदिगित्यण । सौदामिनीति विद्युदेकदिक समानदिगित्यर्थः । समानः समयो ययोः सङ्घातभेदयोस्ताभ्यामेककालाभ्यामिति यावदिति, पाठान्तरं वा एकसामयिकाभ्यामिति, एवं व्यणुकादयोऽपि भाव्याः, अन्यस्य परमाणोः सङ्घातेनान्यतः स्कन्धाद् भेदेनेत्येवं स्कन्धात् कारणादुत्पद्यत इति प्रतिपादितम् ॥२६॥
१'एतदेव च ' इति क-ख-योर्भाध्ये टीकायां च पाठः। 'सामामिकाभ्यां ' इति क-ख-पाठः ।
३.अन्यस्य संघा.' इति घ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518