Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
सूत्रं २६] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३६९ एकदेशयोगस्तु दूरादुत्सारितः,कृत्स्नसंयोगस्तु कदाचिदुपचारवशादिष्येताप्यनवयवत्वात् कृत्स्नो योगो नावेशतो ह्येषामिति ॥ अथ यदुक्तमनाश्लिष्टा एवाणवः प्रत्यासत्तिभाजः समुदिता विभा. व्यन्ते, तदतितरामसमञ्जसम् , अणुसमवस्थानानामसंहतत्वाच्च दर्शनं न स्यात् , कस्तेपामतिशयोऽतीन्द्रियाणामुपाजनि प्रत्यासत्तावसंहतानां येन ते लोचनादीन्द्रियगोचरतामापद्यन्ते, नहि पूर्वावस्थायामेककाः सन्तोऽदृष्टास्तद्वदुत्तरावस्थायामपि न दृश्येरन् , नहि शक्या विच्छिन्ना अणवोऽनन्ता अपि द्रष्टुम् । केशनिदर्शनादेवं प्रतीयत इति चेत्, तदयुक्तम्, केशा ह्येकका अपि कदाचिद् दृश्या भवन्ति, न कदाचिद् अणवः प्रत्येकं चक्षुरादिग्राह्याः, परस्परमनाश्लिष्टेषु चाणुषु भूयांसो दोषाः सम्भवन्त्यमी, देशे च धार्यमाणे घटस्य कृत्स्नस्य धारणं न स्यात्, उत्क्षेपावक्षेपाकर्षाश्च तथैव न भवेयुः, तस्मादङ्गाङ्गिभावरूपेणाणूनां बन्धपरिणामाभ्युपगमात् सकलस्य संहतस्य महतो द्रवस्याकर्षणादीन्येकदेशेऽपि वर्तमानानि सिद्धान्यतोऽन्यथा न स्युः। संयोगमात्रत्वे बालिकापुरुषादिवदिति बहुलोकसिद्धं विघटेत । तच्च महद् द्रव्यं कणभु–परिकल्पितावयवीव नास्ति मौनीन्द्रदर्शने, द्रव्यास्तिकनयाभिप्रायान्मुझेषिकावद् भेदेनाग्रहणात् , अतो नावयवी स्वदेशेभ्योऽन्यो भिन्नोऽञ्जसा प्रत्यक्षेणानुमानेन वा ग्रहीतुं शक्यतेत्यर्थान्तरभूतावयविनो निषेधः, नान्यो देहादिरवयवी स्वावयवकलापादबद्धत्वे सक्रियत्वे च सति विभागेनागृह्यमाणत्वादवयवस्वरूपवत् स्थानासनशयनादिक्रियावान् देहस्तदवयवाश्चादानविह रणादिक्रियया सचेष्टाः। परस्परप्रतिवद्धपुरुषद्वयव्यभिचारनिरासार्थमवद्धग्रहणम्। तथा धर्माधर्मा काशानां नानात्वेऽपि विभागेनागृह्यमाणत्वमस्तीत्यनैकान्तिकारेकाव्युदासाय सक्रियत्वविशेपणम् , तस्मादवयवव्यतिरेकेणासन्परिकल्पितोऽवयवी कन्दलीदलव्यतिरिक्तकदलीदलसारवत् । यदपि लोके तस्य दर्शनं तदपि देशेष्वेव, तदेकदेशदृष्टौ सर्वो दृष्ट इति व्यवहारात्, अत्यन्तव्यतिरेकपक्षे चावयविनः प्रत्यवयववृत्तित्वादयोऽप्युद्वाहणीया दोषाः, सर्वथा चानुपपद्यमानवृत्तित्वात् खपुष्पवत् असन्नवयवी, उपलब्धिकारणसनिधाने सत्यवयवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुणत्वात् , हस्त्याद्यवयवव्यतिरेकेण सेनावत् , व्यतिरेके घटबदरादयः, पर्यायनयाभिप्रायेण तु नानात्वमवयविनोऽवयवेभ्यः, अवयवगुणेभ्योऽन्योऽवयविगुणो व्यस्तेषु तेष्ववयवेषु तत्प्रमाणवणोकृतिरूपेणादृश्यमानत्वात् , अनेकरत्नसंघातनिष्पनरत्नावलीवत्र रत्नेभ्यः, येन तेषु देशेषु व्यस्तेषु न चतुर्हस्तः पटश्चित्रः पटः समचतुरस्रः पट इत्यादिविशेषोपलब्धिः, एवं द्रव्यपयोयनयैकान्ते बहवो दोषाः, स्याद्वादिनस्तु यथापरिणाममणानणविशेषोपनिपातिस्या. च्छब्दोपपदप्रतिपिपादयिषितधर्मस्वरूपाभिनिवेशादशेषधर्मकलापोपसङ्ग्रहणात् सर्वैकान्तधर्मविनिवृत्त्या सर्वैकान्तवाक्यसमवतारणात् स्यादन्यः स्यादनन्यः स्यादन्यानन्यः स्यादवक्तव्य इत्यादिसप्तभङ्गीप्रतिज्ञानाद् दोषाणामनवकाश एव, यस्मादर्पितानर्पितनयद्वयविवक्षाविवक्षाभ्यामन्यत्वानन्यन्वे भाज्ये, पर्यायनयोर्पितस्तन्मतेन त्ववयवावयविनोर्भेदः, अनर्पितो द्रव्या
१' मानत्वावृत्तित्वात् ' इति क-पाठः। २ ' हस्ताद्यवयव ' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518