Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
३३४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ अथ जीवानां कियति क्षेत्रेऽवगाह इति उच्यते
सूत्रम्-असङ्ख्येयभागादिषु जीवानाम् ॥ ५-१५॥ टी.-असङ्ख्येयभागादिष्वित्यादि सूत्रम् । असङ्ख्येयभागादिष्विति समानाधिकरणगर्भो बहुव्रीहिः, लोकाकाश इत्यनुवर्तते सप्तम्यन्तम्, अर्थवशाच्च विभक्तेः परिणाम इति लोकाकाशस्यासङ्ख्येयभागादिष्वित्यभिसम्बन्धनीयम्, असङ्ख्येयश्चासौ भागश्च स
_____ आदिर्येषां तेऽसङ्ख्येयभागादयस्तेऽसङ्ख्यया एव भागाः, तत्र कदानावानामवगाहः चिदेकस्मिन् लोकाकाशप्रदेशासङ्ख्येयभागे कदाचिद् द्वयोरसख्येयभागयोः कदाचित् त्रिष्वित्यादि जीवानामवगाहो भवति ॥
भा०-लोकाकाशप्रदेशानामसङ्ख्येयभागादिषु जीवानामवगाहो भवति, आ सर्वलोकादिति ॥१५॥
अत्राह-को हेतुरसङ्ख्येयभागादिषु जीवानामवगाहो भवतीति । अत्रोच्यते
टी-लोकाकाशेत्यादि भाष्यम् । अमुना भाष्येणाधिकारानुवृत्तिं दर्शयति विभक्तिपरिणतिं च । लोकाकाशप्रदेशाः सर्व एवासङ्ख्येयास्ते पुनरसङ्ख्येयैर्भागैर्धिया विभज्यन्तेऽङ्गुलासङ्ख्येयभागप्रमाणैः, तत्रैकस्मिन्नसङ्ख्येयप्रदेशे वियत्खण्डे जघन्यत एकजीवस्यावगाहो भवति कार्मणशरीरानुविधायित्वात्, कश्चित् पुनस्तादृशं खण्डद्वयमाक्रम्य वर्तते, कश्चित् त्रीणि तादृशं, परश्चत्वारीत्यादि यावत् सकललोकाकाशमन्यो व्याप्यावतिष्ठते,समुद्धातकाले केवल्येव, नापरः, लोकमर्यादया, न पुनरलोकाकाशस्यैकमपि देशमाक्रामतीति दर्शयति ॥ १५ ॥
अत्राहेत्यादि सम्बन्धग्रन्थः । एवं मन्यतेऽवधृतासङ्ख्येयप्रदेशपरिमाणस्य कार्मणशरीरापादितौदारिकादिशरीरसम्बन्धादल्पबहुप्रदेशव्यापितायां को हेतुरसङ्ख्येयभागादिष्वित्यादि। नहि तुल्यपरिमाणानां पटादीनामवगाहे वैषम्यं दृष्टम्, अस्यापि तुल्यप्रदेशत्वात् किमिति तथा नाभ्युपेयत इत्याक्षिप्ते, अत्रोच्यत इत्याह । अत्र प्रश्ने प्रतिविधीयते
सूत्रम् --प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ ५-१६ ॥ टी.-प्रदेशलक्षणमुक्तम्, एकस्यात्मनः प्रदेशा लोकाकाशप्रदेशराशिमानाः तेषां संहारः-सङ्कोचः विसर्गो-विकासस्ताभ्यां संहारविसर्गहेतुभ्यामेतदेवं वैषम्यं प्रदीपवत, यथा प्रदीपास्तेजोऽवयवा यथावकाशानुविधायिनः स्वल्पेऽवकाशे सङ्कोचमास्थायासते, महति
. चोपने विकाशं भजन्ते, तथात्मनोऽपि प्रकर्षप्राप्तसङ्कोचस्यैकस्मिन्नसङ्ख्येयआत्मप्रदेशाना - भागे लोकस्यावस्थानमुत्कृष्टविकाशप्राप्तस्य च केवलिनः सर्वलोकेऽवगाहो. सङ्कोचविकासौ
" ऽन्या मध्यमावस्थानेकभेदेति । एतदेव विस्तरेण दर्शयति भाष्यकार:भाo-जीवस्य हि प्रदेशानां संहारविसर्गाविष्टौ प्रदीपस्येव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518