Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 391
________________ ३६० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ त्वेकस्य गुणभूतत्वमन्यस्य प्रधानत्वमेवं चेत, इष्यते एव द्रव्यपर्याययोरन्यतरस्य गुणप्रधानभावः, त्वयाऽप्येकस्मिन् काले द्रव्ये च धर्माधर्माववश्यमभ्युपगन्तव्यौ, अन्यथा प्रतिबन्ध्यप्रतिबन्धकमाव एव न स्यात्, अतो वामात्रमेव विरोध इति । न च सामान्यादत्यन्तभिन्ना व्यक्तिरिति जैनसिद्धान्तः । एतेन नादवृद्धिः परेति प्रत्युक्तम्, नादो महान् मध्योऽल्पश्च, न शब्द इति शबरेणोक्तम्, तदसत, शब्दस्यैव ताथाविध्यात्, तीवमन्दमध्यप्रयत्नभेदान्महाञ्छ .. ब्दोऽल्पो मध्यश्चेति सामानाधिकरण्येन शब्द एव व्यपदिश्यते, न च अन्यमतपूर्व : शब्दव्यतिरिक्तं श्रोत्रस्य ग्राह्यमस्ति, शब्दधर्म एव नाद इति चेत्, स शब्दस्वरूपम् । - ततोऽन्योऽनन्य इति वाच्यम्, उभयथा च दोष इति । येऽपि प्रधानपरिणाममुशन्ति शब्दं तैरपि सामान्यविशेषवान् मूर्तश्चाभ्युपेयः, अन्यथा तत्कृतव्यवहारो विच्छिद्येत, येऽपि सगिरन्ते श्रोत्रेन्द्रियविषयमुपात्तानुपात्तोभयमहाभूतहेतुकं शब्दम्, तैरपि न विशेषमात्रमुत्खातसामान्यमूलमवलम्बनीयम्, अयोनयो हि विशेषाः खपुष्पसौरभवदनासादितात्मलाभा एव स्युः, एकान्तक्षणिकता च दृष्टान्ताभावादेवातिदुर्लभेति ! तस्मादवस्थितमेतत्-पुद्गलद्रव्यमेव प्रतिविशिष्टपरिणामानुगृहीतं शब्द इति । स द्विधा विस्रसाप्रयोगभेदात्, तत्र शब्दस्य भेदप्रभेदाः वला ... वससिको जलधरध्वानादिः, प्रयोगजो जीवव्यापारनिष्पन्नः षोढा स्य मदमदा ततादिः, ततो मृदङ्गपटहादिसमुद्भवः, विततो वीणात्रिसरिकादितम्त्रीप्रभवः, कांस्यभाजनकाष्ठशलाकादिजनितो घनः, वेणुकम्बुवंशविवराघुद्भवः शुषिरः, क्रकचकाष्ठादिसङ्घर्षप्रसूतः सङ्घर्षः, व्यक्तवाग्भिर्वर्णपदवाक्याकारेण भाष्यत इति भाषा, प्रतिनियतसंस्थानान्यक्षराणि वर्णाः, वर्णसमुदायः पदम्, पदसमुदायो वाक्यमर्थविशेषप्रतिपत्तिहेतुः, इतिशब्दः शब्दभेदेयत्तापरिसमाप्तिप्रदर्शनपरः ॥ भा०-बन्धस्त्रिविधः-प्रयोगबन्धो विस्रसाबन्धो मिश्रबन्ध बन्धस्य त्रैविध्यम् इति । स्निग्धरूक्षत्वाद् भवतीति वक्ष्यते (अ०५, सू०३२)॥ टी०--बन्धस्त्रिविध इत्यादि । बन्धनं बन्धः-परस्पराश्लेषलक्षणः, प्रयोगो-जीवव्यापारस्तेन घटितो बन्धः प्रायोगिकः-औदारिकादिशरीरजतुकाष्ठादिविषयः, विस्रसा-स्वभावः प्रयोगनिरपेक्षो विस्रसाबन्धः, स द्विधा आदिमदनादिमद्भेदात्, तत्रादिमान विधुदुल्काजलधरामीन्द्रधनुःप्रभृतिर्विषमगुणविशेषपरिणतपरमाणुप्रभवः स्कन्धपरिणामः, अनादिरपि धर्माधर्माकाशविषयः, प्रयोगविस्रसाभ्यां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणः स्तम्भकुम्भादिमिश्रः, अत्र चोभयमपि प्राधान्येन विवक्षितम, सामान्यलक्षणं च बन्धस्य स्निग्धरूक्षस्वादित्युपरि व्याख्यास्यते, एतच्च बन्धलक्षणमनादौ वैससिके न सम्भवत्यन्यत्र तु सङ्गच्छते, 'सामान्योक्तो विधिर्विशेषेऽवस्थानं लभत ' इति वचनात् ।। पौदलिकबन्धस्यैव लक्ष्यत्वात् नोपयोगोऽस्य, बन्धसामान्याधिकारे एव विनसाबन्धस्यानादितया यामः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518