Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 390
________________ सूत्र २४ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् तथाविधः परिणामः शब्दव्यपदेशभागित्येकद्रव्यवत्त्वाभावः, ततश्च स्याद् द्रव्यं स्याद् गुणः, परिणामस्य परिणामिनोऽर्थान्तरानान्तरत्वेनाभ्युपेतत्वात , एतेनानित्यत्वैकान्तः प्रत्युक्तः, सर्ववस्तूनां द्रव्यपर्यायात्मकत्वात् , एवं ताकाशस्यापि केनचिदाकारेण गुण एवेति चेत् , नामाकाशादिविवक्षावशाददोषोऽयमनेकान्तवादिनः, द्रव्यपरिणाममात्रत्वाच कर्मणोऽचाक्षुपप्रत्यक्षताऽप्यसिद्धा, यदि कथञ्चित् क्षणिकत्वम् , सिद्धसाध्यता, सर्वात्मना चेत् , दृष्टान्ताभावः, सत्त्वमपि केनचित् पुद्गलरूपाद्याकारेणेत्यतः सत्त्वे लिङ्गाभावादित्यसम्बद्धम् , कारणसामग्र्या चाकारान्तरावस्थानमापद्यत इत्युत्थितासीनशयितपुरुषवदित्यभूतात्मलाभत्वमसिद्धम् , शब्दपयोयेणाभूत इति चेत् , उक्तमसकन्न वस्तु पर्यायमानं, किं तार्ह १ द्रव्यं पर्यायश्चेत्युभयम् , अभिव्यक्तिदूषणान्यप्येकान्तावस्थितवस्तुपक्षेऽवतरीतुमुत्सहन्ते, न तु परिणामा यस्य कथश्चिदनित्यं कथञ्चिन्नित्यमिति, दण्डादिताडनोत्थितभेर्यादिपुद्गलाश्च समासादितशब्दरूपादिमन्तः सन्तोऽपि सूक्ष्मत्वात् कारणगुणपूर्वका अपि नोपलक्ष्यन्ते, विध्यातदीपशिखारूपादिवद् गन्धपरमाणुव्यवस्थितरूपादिवद वा, न च सर्वदास पर्यायः शब्दाख्यः प्रादुरस्ति, द्रव्यक्षेत्रकालभावापेक्षत्वात् पित्तादि कोपवत्, भेर्याद्याश्रयाश्च निश्च(स्स)रन्तः स्कन्धाः शब्दपर्यायमजहतो दिगन्तरस्थितैरपि गृह्यन्त इति नाश्चर्यम्, नैव चोपलभ्यते स्वोपनादन्यत्र शब्दपरिणामः, ताग्विधाकारेषु परमाणुष्वेवावतिष्ठते, आध्यात्मिकश्च शब्दः काययोगात्तशब्दवर्गगायोग्यस्कन्धपरिणतिर्वाग्योगः, प्रयोगविक्षिप्तो रूपादिमत्पुद्गलसङात एवेति, बाधस्त्वनेकाकारः सङ्घर्षजादिः । अपि च-शब्दत्वं नित्यमभ्युपयन् कणादः पर्यनुयुज्यते श्रावणत्वान्नित्यः शब्दत्ववच्छब्दः, कृतकत्वस्यानित्यत्वेन व्याप्तेविरुद्धाव्यभिचारित्वमिति . चेत्, नित्यानित्यस्वभावसर्वपदार्थवादिनस्तन्न बाधायालम् , अनेकानित्यानित्यत्वयो त्वया न्तवादिना च न नित्यत्वानित्यत्वयोर्विरोधोऽभ्युपगम्यते, विरोधलक्षविरोधाभावः णासम्भवात्, एकस्तावद विरोधोहिनकुलानिजलादीनामेकस्मिन् काले सति संयोगे द्वित्ववदनेकाश्रयत्वाद् वध्यघातकलक्षणः, नह्यसंयुक्तमुदकमग्निं विध्यापयति, त्रैलोक्येऽप्यन्यभावप्रसङ्गात्, संयोगेन तु क्षणमात्रावस्थितत्वात् पश्चादेकस्याऽवलता द्वितीयस्य बलीयस्त्वम्, न चैवं नित्यानित्यत्वयोः क्षणमात्रमप्येकस्मिन् वृत्तिरेकान्तवादिनाऽभ्युपेयते, अतो न वध्यघातकलक्षणो विरोधः समस्ति, नाप्यसहावस्थानलक्षणः, तत्र हि शीतोप्णयोः फले घृन्तसंयोगविभागयोराम्रफले च श्यामतापीततयो.कस्मिन् वस्तुनि एककाला वृत्तिरस्ति, किन्त्वेकस्य प्राग्विद्यमानता द्वितीयस्य चोत्पद्यमानतास्वभाव इत्यसावुत्पद्यमानः पूर्व विरुणद्धि, यथा सहकारफले पीतता श्यामताम्, न चैवमवस्थितं प्रामित्यत्वमनित्यत्वेनोपजायमानेन नाश्यते, तद्धि नित्यमेव न स्यादध्रवत्वादिति, न च प्रतिवध्यप्रतिबन्धकलक्षणो विरोधः स्याद्वादिनं प्रति घटते, यत एकस्मिन्नात्मद्रव्ये युगपद् धर्माधर्मावुभौ सम्भवतः, तत्र १ लभ्यन्ते ' इति क-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518