Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 388
________________ सूत्र २४ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् धायकः प्रस्यर्थनियतसङ्गतवर्णादिविभागवान् ध्वनिरेव शब्दः, न स्फोटः, अनादिवृद्धपरम्परासङ्केतप्रसिद्धिवशात् प्रत्यर्थनियतत्वम्, परस्परापेक्षातः स्वाभिधयैकार्थकारितया शिविको. द्वाहकवत् सङ्गतत्वम्, वर्णपदवाक्यानि विभागः, तद्वान् धनिरेव च शब्द:-श्रोत्रग्रहणः, न स्फोटः शालातुरीयमतानुसारिवैयाकरणनिकायपरिकल्पितः, तेषां हि शब्दस्य ध्वनिरुचरितः स्फोटं किलाभिव्यनक्ति, तस्मादभिव्यक्तादर्थप्रतीतिरिति, स्फोटाद भिन्नत्यम् असम्बन्धमेतत्, अनित्यत्वापत्तेः, स्फोटस्य अभिव्यज्यमानत्वान्मूलकी . लोदकादिवत्, अर्थप्रतीतिहेतुत्वात्, प्रदीपादिवत्, प्रदीपादिनित्यत्वे वा दृष्टान्ताभावः, न च स्फोटमभिव्यञ्जन्ति ध्वनयः, अचाक्षुषप्रत्यक्षत्वात् गन्धवदित्यतो ध्वनिरूपः शब्दः स्मृतेः कारणम्, सर्वस्य शब्दस्य प्राग्व्युत्पन्नसङ्केतवशादर्थप्रत्यायनम्, ततश्च पूर्वोपलब्धार्थानुस्मरणात् स्मात शब्दविज्ञानम्, न चान्यापोहमानं शब्दार्थः, विधिनिरपेक्षस्य व्यतिरेकस्यात्राप्रसिद्धेरन्वयस्य च व्यतिरेकशून्यस्यानुपलब्धेः, परस्परापेक्षाभ्यामन्वयव्यतिरेकाभ्यां सर्वत्रार्थाधिगतेः व्यतिरेकस्यैव प्राधान्यमित्ययुक्तम्, तथाचाह दत्तकभिक्षुरेष-"अर्थान्तरापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इच्युच्यते" । हिशब्दो यस्मादर्थे । यथा वृक्षशब्दोऽवृक्षशब्दनिवृत्ति स्वार्थ कुर्वन् स्वार्थ वृक्षलक्षणं प्रत्याययतीत्युच्यते, एवं च निवृत्ति विशिष्टं वस्तु शब्दार्थः, न निवृत्तिमात्रम्, अलक्षणीयमेव च स्यानिवृत्तिमात्रमवस्तुत्वात् खरविषाणकुण्ठतीक्ष्णतादिवर्णनावत्, अत्र च न प्राग् विधिना घटं गृहीत्वा पश्चादन्यापोहं करोति, नाप्यन्यापोहं कृत्वा पश्चाद् घटं कालभेदेन गृह्णाति, क्रमेण हि ग्रहणे हसिष्ठत्वात क्षणिकत्वाच सर्वभावानां ध्वनेज्ञानस्य च न युक्तं व्यापारद्वयानुष्ठानम्, सन्तानाचेत् तदयु. क्तमवस्तुत्वात्, एवं तर्हि घटग्रहणमन्यापोहश्च युगपदुभयं सिद्धम्, यथा सवितुरुदये सन्तमसषिदलनं स्वरूपप्रकाशनं च स्वभावात्, एवं सत्युभयमभिधेयं सामान्यं विशेषश्चेत्यवशेनापि प्रतिपत्तव्यमन्यापोहशब्दार्थवादिना, अन्वयव्यतिरेकयोस्तुल्य क्षत्वाद् विधेयमपि प्रधानमेवास्तु, नहि द्वयोरर्थयोर्धवखदिरवद् युगपदुपासयोरेकस्य गुणभावकल्पना श्रेयसी ॥ ननु चान्वयस्य प्राधान्येऽभ्युपेयमाने प्रयलानन्तरीयकत्वमव्याप्तसपक्षं सन्नैवानित्यत्वं गमयेत्, केन वेदमुक्तं-व्याप्तसपक्षं गमयति अव्याप्तसपक्षं न गमयतीति, एतावत् तु उच्यते-अन्वयनिरपेक्षो न गमयति व्यतिरेकः, नापि व्यतिरेकनिरपेक्षोऽन्धयः प्रतिपादकोऽर्थस्य, परस्परपेक्षतायां च शिषिकोद्वाहकादिवत् सर्वत्र प्राधान्य, कचिद् विवक्षावशात् वाऽन्यतरस्य गुणप्रधानकल्पनेति । यथाऽऽह-बादशशतिकायाम् “यदप्युक्तमप्रसक्तस्य किमर्थ प्रतिषेध इति, नैवैतत्, प्रतिषेधमात्रमुच्यते, किन्तु तस्य वस्तुनः कश्चिद् भोगार्थान्तरनिवृत्त्या लोके गम्यते यथा विषाणित्वादनश्व इति, न चाक्षिप्तो विशेषः, साक्षादभिधीयमानत्वात्", यथैव सामान्यमुच्यते तथा विशेषोऽपीत्युभयमत्र मुख्यं वाच्यमित्यतः सामान्यविशेषात्मकमेवाभिधेयम् । शब्दश्च - १ 'वृक्षशब्दः' क-ख-योर्नास्ति। २ वर्णनवत्' इति क-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518