Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
३५८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ पुद्गलद्रव्यपरिणामः,तत्परिणामता चास्य मूर्तत्वात् ,मूर्तता च द्रव्यान्तरविक्रियापादनसामर्थ्यात् पिप्पलादिवत्, ताड्यमानपटहतलस्थकलिंचादिप्रकम्पनात्, तथा शङ्खादिशब्दानामतिमात्र
. प्रवृद्धानां श्रवणबधिरीकरणसामर्थ्यम्, तच्च नाकाशादावमूर्तेऽस्ति, तथा शब्दस्य पुद्गलत्वे
लव प्रतीपयायित्वात् पर्वतप्रतिहताश्मवत्, द्वारानुविधायित्वादातपवत्, संहाहेतवः
रसामर्थ्यादगुरुधूपवत्, वायुना प्रेर्यमाणत्वात् तृणपर्णादिवत्, सर्वदिग्ग्राह्यत्वात प्रदीपवत, अभिभवनीयत्वात् तारासमूहादिवत्, अभिभावुकत्वात् सवितृमण्डलप्रकाशवत, महता हि शब्देनाल्पोऽभिभूयते शब्द इति प्रतीतम्, तस्मात् पुद्गलपरिणामः शब्दः ॥ ननु चाकाशस्य गुणाः-शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागाः, आकाशस्य गुणः शब्द इति कणभुङ्मतम्, एकद्रव्यवत्त्वाद्, एकेनाश्रयद्रव्येण द्रव्यवत्त्वमेकद्रव्यवत्त्वम्, अथवा एकं च तत् द्रव्यं चेत्येकद्रव्यं तदस्याश्रयोऽस्तीत्येकद्रव्यवांस्तद्भाव एकद्रव्यवत्त्वं तसादेकद्रव्यवत्त्वान्न द्रव्यम्, न च कर्माचाक्षुषप्रत्यक्षत्वात्, अतः परिशेषाद् गुणः, स च क्षणिकः प्रागूज़ चोचारणात् सत्त्वे लिङ्गाभावात्, कारणसामग्र्याः प्रागभूतात्मलाभत्वात् , शब्दाभिव्यञ्जकवस्त्वभावात् , सति चाभिव्यञ्जके कारणजो विकारो न स्यात् , नहि घटस्य प्रदीपादिदिव्यमणि
. व्यञ्जकसनिधाने परिमाणानुविधानं दृष्टम् , तावानेव हि घटकोऽभिशब्दस्य गुणत्वे वैशेषिकविचारः
4. व्यञ्जकभेदे सत्यपि, अयं त्वल्पमध्यादिभेद उपलभ्यते, तथा-भेर्यादि
संयोगानिष्पत्तेर्वेणुपर्व विभागाच्छब्दाच शब्दनिष्पत्तेः वीचिसन्तानवत, न चायं विशेषगुणः स्पर्शवतां द्रव्याणां भूजलानलानिलानामकारणगुणपूर्वत्वात् , यथा शुचौ शङ्के कारणगुणपूर्व धवलं रूपमालक्ष्यते, विनष्टेऽपि तस्मिन् जलजे तथालक्षणमेव रूपं शकलेषु गृह्यते, न त्वेवं भेर्यादिशब्दाः प्रध्वस्तेषु भेोदिषु तदवयवेधूपलभ्यन्ते, शरीरे वा सामश्लोकादिशब्दाः शरीरावयवेषु वोपलक्ष्यन्ते, तस्मान्न कारणगुणपूर्वः शब्दः, तथा यदि स्पर्शवतो गुणः स्यात् शब्दस्ततो यावत् तानि स्पर्शवद् द्रव्याणि तावद् भवेद् रूपादिवत्, न चैवमुपपद्यते, तस्मादयावद्दव्यभावित्वान्न पृथिव्यादिगुणः शब्दः, इतश्च न स्पशवद्र्व्यगुणः शब्दः, आश्रयादन्यत्रोपलब्धेः, अन्यत्र हि शङ्खमुखसंयोगोऽन्यत्र दिगन्तरेऽवस्थितैः श्रोतभिरुपलभ्यते शब्दः, स्पर्शवद्गुणास्तु रूपादयोऽन्यत्राश्रयान गृह्यन्ते, तस्मान शब्दः स्पर्शवतांगुणः, बाह्येन्द्रियप्रत्यक्षत्वाच नात्ममनोदिकालानाम्, पारिशेष्यादाकाशगुणः, लिङ्गमाका
शस्यानुपलभ्यमानस्येति । तदेतदघटमानकमेव वैशेषिकैर्वाचालतया म. स्वमतिविकल्पशिल्परचनामात्रमाविक्रियते गगनमहाशिखरवर्णनवत्, गुणत्वनिरासः
व मूर्तत्वं हि प्रत्यपादि प्रागस्यास्माभियुक्तितः, तत् कथं मूर्तस्य व्योमगुगत्वोपपत्तयः सङ्गस्यन्ते ? नहि रूपादयो व्योमगुणा इति व्याहारः शोभते, पुद्गलानामेव हि
शब्दस्य
२ 'द्रव्यबन्धात्' इति क-ख-पाठः। ३ 'कारणतो' इति ग-पाठः ।
१ 'कलिम्बादीप्र' इति ग-पाठः । ४ "बिखरवत्' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518