Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 370
________________ सूत्रं १८] . स्वोपज्ञभाष्य-टीकालङ्कृतम् ३३९ धर्ममनुरुध्यन्तेऽनेकान्तवादिनः, स्थितिपरिणामभाजां चाधर्मम्, आभ्यां च न गतिस्थिती क्रियेते, केवलं साचिव्यमात्रेणोपकारकत्वं यथा भिक्षा वासयति, कारीपोऽग्निरध्यापयतीति ॥ ननु तवापि लोकव्यापिधर्मद्रव्यास्तित्ववादिनः सन्धामात्रमेव तदुपकारो गत्युपग्रह इति स्थित्युपग्रहश्चाधर्मेद्रव्योपकारस्तन्मात्रत्वादिति, अत्र जागद्यते युक्तिरस्माभिरवधत्तां भवान्गतिस्थिती ये जीवानां पुद्गलानां च ते स्वतः परिणामाविर्भावात् परिणामिकर्तृनिमित्तकारणत्रयव्यतिरिक्तोदासीनकारणान्तरसापेक्षात्मलाभे, अस्वाभाविकपयोयत्वे सति कदाचिद भावात, उदासीनकारणपानीयापेक्षात्मलाभझपगतिवत्, तद् यद्येतयोरमूर्तयोरपि सतोर्गमकमेकैकस्याभावे न भवति, न चान्येनोपक्रियते, तल्लक्षणमुपकारः प्रयोजनं सामर्थ्य गुणोऽर्थ इत्यनर्थान्तरमित्यत्यन्तप्रसिद्धा एवोपकारादयः समानार्थाभिधायित्वेन, उपकारो-गतिस्थितिपरिणतद्रव्यसामीप्येन व्याप्रियमाणता, तदुपग्राहितयाऽनुष्ठानमिति प्रयोजनमतिशयेनोपकारि गुणः सामर्थ्यमात्मीयशक्तिप्रभावः, अर्थस्तु द्रव्यान्तरासम्भवि प्रयोजनमेवेति ॥ १७ ॥ यद्यतीन्द्रिययोर्धर्माधर्मयोरुपकारसम्बन्धेनास्तित्वमवधृतम्, अनन्तरोद्दिष्टस्य नभसो. ऽतीन्द्रियस्याधिगमे क उपकार इति ? । उच्यते सूत्रम्-आकाशस्यावगाहः॥५-१८॥ आकाशस्योपकारः टी०-ननु च लोकाकाशेऽवगाह इति प्राग् निरूपितमेव लक्षणमाकाशस्य, पुनः किमयमारम्भो लक्षणाभिधित्सया ? । सत्यमुक्तं, प्रागवगाहिनां जीवपुद्गलानां प्राधान्यप्रचिकाशयिषया, इह तु तत्स्वरूपमेव निर्धार्यते, इहैव स्वरूपसिद्धिं बुद्धौ सन्निवेश्य नभसस्तदुक्तं प्राक, अतोऽवश्यं स्वरूपव्यावर्णनं पदार्थस्य कार्यमिति ॥ भा०-अवगाहिनां धमपुद्गलजीवानामवगाह आकाशस्योपकारः॥ टी-अवगाहिनामित्यादि भाष्यम् । विहितनिर्वचनं प्रागाकाशं तस्य लक्षणमवगाहः-अनुप्रवेशनिष्क्रमणस्वभावः,अवगाहस्य सम्बन्धिशब्दत्वात् सम्बन्धिनामुपादानमवगाहिनां धर्मादीनाम्,आकाशस्यावगाह उपकारो लिङ्गं स्वतत्त्वमेव,एषामवकाशदायित्वेनोपकरोति, स चोपकार आत्मभूतोऽस्य लक्षणमुच्यते । एतदुक्तं भवति-अवगाहमानद्रव्याणामवगाहदायि भवति, न पुनरनवगाहमानं पुद्गलादि बलादवगाहयति,अतो निमित्तकारणमाकाशमम्बुवन्मकरादीनामित्युक्तं प्राय, अनेकमुदाहरणमिहावर्तनीयम् ॥ नन्वयमवगाहः पुद्गलादिद्रव्यसम्बन्धी व्योमसम्बन्धी चेति उभयोधर्मः, स कथमाकाशस्यैव स्वतत्त्वमुभयजन्यत्वात् द्यङ्गुलसंयोअवगाहगुणत्वम् - गवत् , न खलु द्रव्यद्वयजनितसंयोगो द्रव्येणैकेन व्यपदेष्टुं पार्यते लक्षणं - वैकस्येति वक्तुम्, सत्यमेतत्, तथापि लक्ष्यमाकाशमवगाह्यं प्रधानम्, अवगाहनमनुप्रवेशो यत्र तदाकाशमवगाहलक्षणं विवक्षितम्, इतरत् त्ववगाहकं पुद्गलादि १'चाधर्मः' इति क-पाठः। २ 'शक्तिः प्रभावः' इति क-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518