Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
३५२ तत्वार्थाधिगमसूत्रम्
[ अध्यायः ५ जायाः, क्षणं क्षणद्युतिदीपिकाप्रकाशिताशामुखासु क्षणदासु परिश्रमत्खद्योतकीटकासु सञ्चरन्ति मसणमभिसारिकाः, पङ्कबहुलाः पन्थानः कचिज्जलाकुलाः कचिदविरलवारिधाराधौतहारिसैकताः नभोनभस्ययोमासयोः ।
तथा शरदि-दिनकृतो मयूखाः पङ्कमाश्यानयन्तः प्रतापमुग्रतरमातन्वते, विनिद्राम्भोजकुमुदवनानि सरांसि सहंससारसानि स्फटिकमणिभित्तिविमलवारिपूर्णानि, कल्हारकुवलयामोदवाहिनो गन्धवाहाः सप्तच्छदकुसुमरजोधूलिधूसरितवपुपः कलगुञ्जिनो मधुलेहिनः काष्ठाः कृतबन्धुजीवकावतंसाः, सञ्जातदस्तिथोक्षाणो मत्तध्यानगम्भीरमुन्नदन्तः श्लिष्टमृत्तिका
खण्डमण्डितशृङ्गकोटयः परिष्वष्कन्ते, कृषीवलहृदयहारीणि हरिणकशरद्वर्णनम् दम्बकदशनालूनतटस्तम्बाग्राणि केदार्याणि समधिगतपाककलमानि
कलमगोपिकाच्छ्रत्कारवित्रासितशुकमण्डलानि नितरां चकासति, तुषा रदीधितेर्धवलयन्तो मुखानि हरितामभीशवः कामिनां प्रमोदमन्तःकरणेषु शनकैः समेधयन्ति प्रसभमिषोर्जयोर्मासयोः ॥ तथा वेलानियमसमधिगतपाटवानि प्रातः कुशेशयकोशजालानि भास्वत्करसम्पर्काद्
विकासमाददते, कुमुद्वतीनाथकिरणकलापपरामृष्टानि च कुमुदकुवलयवेलानियमः कुङ्मलानि निष्ठयूतसुरभिपरिमलं दलन्ति, कोशातकीपुष्पपटप्राव
रणाः सन्ध्यासु ग्रामवृत्तयः सुरभिगन्धोद्गारिणः कामिजनजनितसम्मदास्तरुण्य इव बहलाङ्गरागा विराजन्ते, जलधिरपि वेलानियममनुवर्तमानः शिशिरकिरणोदये वलिततुङ्गवीचिवाहुभिरम्भोधरवानगैम्भीरव्याहारमेलाफलपरिमलपिशुनामालम्बते वेलावधूम, काशिकशकुन्तयश्च रजनीषु द्राधीयसा भयानकध्वनिना स्थायं स्थायमारटन्ति, प्रतानितग्रीवाः कुकवाकवोऽपि वेणुपर्यन्तन्यस्तच्छित्वरकृताधिवसतयो दीर्धेः कलगम्भीरध्वनिभिरावे. दयन्ते यामच्छेदान्, वनस्पतयश्च केचिदाबद्धपत्रसङ्कोचाश्चिराय नियतवेलासु निद्रा भजन्ते ॥ . सोऽयमृतुविभागो वेलानियमश्च चित्रपरिणामः कारणं नियामकमन्तरेणानुपपन्नः सकलकारणकलापसनिधोने सत्यप्यनासादितोपजनत्वात्, अनेकशक्तियुक्तकालद्रव्यापेक्षस्तु प्रादुरस्ति, तस्मात् प्रतिविशिष्टकार्यानुमेयः कालोऽणुवत, अन्यथा नियामकहेत्वभावे युगपदेते भावा भवेयुरपरायत्तत्वात, अतः प्रतिनियतकालभावित्वादमीषां परिणामानामस्त्येकमनेकशक्तिकलापान्वितं कारणम्, ताश्च शक्तयः कदाचिदेव स्वकार्यनिष्पादनाय प्रवर्तन्ते समासादितपरिपाका न सर्वदेति । अथ कदाचिदेवमधिगच्छेत् कश्चित् खरविषाणशक्तिरसौ ताहशीति, तदयुक्तम्, अवस्तुत्वापत्तेः, प्रतिवाद्यप्रसिद्धेश्चेति ॥
भा०-क्रिया गतिः। सा त्रिविधा-प्रयोगगतिः विनसागतिः मिश्रिकेति॥ १ धारधौत ' इति क-ख-पाठः । २ 'मभीषवः' इति ग-पाठः। ३. दारिण्य ' इति क-पाठः । 'गभीर' इति क-ख-पाठः। ५'धानेन 'इति क-खा-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518