Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
३४०
तत्वार्थाधिगमसूत्रम्
[ अध्याय: ५
सत्यपि संयोगजन्यत्वे न विवक्ष्यते, अत एव च तल्लक्षणमाकाशस्य, यस्माद् व्योमैवासाधारणकारणतया तथोपकरोति, अतो द्रव्यान्तरसम्भविनोपकारेणातीन्द्रियमप्यनुमेयमात्मवद् धर्मादिवद् वा, यथा पुरुषहस्तदण्ड संयोगभेर्यादिकारणः शब्दो मेरीशब्द इति व्यपदिश्यते यवा - ङ्कुरश्वासाधारणकारणत्वादेवमवगाहोऽप्यम्बरस्य प्रतिपत्तव्यः । यदप्याहुः - अवगाहतेऽणुरवगाहते जीव इति सामानाधिकरण्यदर्शनादवगाहकद्रव्यविषय एवावगाह इति आस्ते देवदत्त इत्यासनवत्, एतदप्येतेनैव प्रत्युक्तं वेदितव्यम् ॥ ननु प्राणिदमुक्तमलक्षणमवगाहः खस्याव्याप्तेरिति, उच्यते- नैवेदमशेषाकाशलक्ष्म प्रतिजानते समयवेदिनः, किं तर्हि ? लोकाकाशस्य, अत एवोक्तं-लोकाकाशेऽवगाह इति, आकाशं शुषिरलेक्षण मेकरूपं तस्य धर्मादिद्रव्यैरवगाहिभिर्विभागः कृत इत्यतो लोकाकाशमुच्यते, अन्यथा तुल्ये शौषिर्ये निर्लक्षणमेव लोकाकाशं स्यादितरद् वा । कथं केषामुपकरोतीति व्याख्यायते
भा० - धर्माधर्मयोरन्तः प्रवेश सम्भवेन पुद्गलजीवानां संयोगविभागैश्चेति ॥ १८
टी० - धर्माधर्म योरित्यादि । धर्माधर्मप्रदेशा ह्यालोकान्ताल्लोकाकाशप्रदेश निर्विभागवर्तित्वेनात्रस्थितास्तस्मादन्तरवकाशदानेन धर्माधर्मयोरुपकरोति, आकाशप्रदेशाभ्यन्तरवर्तित्वात् धर्माधर्मप्रदेशानाम्, अलोके तदसम्भवादिति, स्वल्पतरासङ्ख्ये यप्रदेशव्यापित्वात् क्रियावस्वाच्च पुद्गलजीवानां संयोगैर्विभागेोपकरोति, अन्यत्रावगाढाः सन्तो मृन्मनुष्यलोष्ठशकलादयः पुनरन्यवोपलभ्यन्ते, सर्वत्र चाभ्यन्तरेऽवकाशदानादेकोऽप्यवगाहोऽवगाह्योपाधिभेदान्नानैव लक्ष्यते, चराच्यादन्तः प्रवेशसम्भवेनोपकारः संयोगविभागैश्चेति योजनीयम्, न चाभाव उपकारको दृष्टः शशविषाणादिवदित्यनावरणमात्र ताव्युदासोऽवगाह्यत्वाज्जलादिवल्लो संव्यवहारप्रतीतेः । अथाविद्यमाना आवृतिर्यस्य यत्रेति वा बहुव्रीहावन्यपदार्थप्रधानत्वाद् भावरूपतैव, आवरणादन्यदनावरणं चेत् आवरणं न भवतीति वा पर्युदासप्रसज्यप्रतिषेधान्यतराभ्युपगमे च सदोषतैवानिच्छतोऽपि बलात् पदार्थान्तरत्व प्राप्तेः ॥
अपरे शब्दलिङ्गमाकाशं सङ्गिरन्ते, गुणगुणिभावेन व्यवस्थानात्, तदयुक्तं, रूपादिमत्त्वाच्छब्दस्य, प्रतिघाताभिभवाभ्यां च रूपादिमत्ता विनिश्रेया । अन्ये प्रधान विकारमा - चक्षते, तदप्यसमीचीनम्, असिद्धत्वात् प्रधानस्य, कथं वा प्रधानं नित्यआकाशालिङ्गसम्ब- निरवयव निष्क्रियत्वादिस्वभावं सद् अनित्यादिभिराकारैः परिणंस्यत न्धिमन्तातरम् इति १ । अथैवं मन्येथाः - प्रधानविकारो विज्ञानं दृष्टं सक्रियं, न चापह्नवः प्रत्यक्षसमधिगते समस्तीति, सत्यमिदं दृष्टं न तु प्रधानविकारतया, न च सत्त्वं प्राधान्येन
१ आकाशस्य द्रव्यत्वेऽपि शुषिरतया प्रतिपादनं परप्रसिद्धेः अवगाहकतागुणप्राधान्यता ।
२ नहि तेषां कुतोऽपि प्रवेशः किन्तु सदा अरूपितया तदनतिरिक्तवृत्तितयावस्थानं, जीवादीनां विभुत्वाभावात् संयोगादिभावः, चकारो जीवपुद्गललक्षणोपकार्य संग्रहार्थ, अन्वयश्चोपकारेण, अन्तःप्रवेशस्यान्यूनानतिरिक्तवृत्त्यर्थत्वात्, जीवादीनां प्रतिप्रदेशसमानावगाहाभावात् न स तेषाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518