________________
२९२
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ४
अतः कयाsपि काका निदर्शनरूपया प्रज्ञाप्यत इत्यावेदयति, तमेवंप्रकारं समर्थ यस्मादनुपमलक्ष्मीप्रयत्नमाजः परमर्षयः परिहीणच्छद्मानः समस्तज्ञेयग्राहिणा केवलज्ञानेनावगच्छन्ति स्वरूपतो न पुनर्निर्दिशन्त्यन्यस्मै, परमनिरुद्धत्वा दिति अल्पत्वादित्यर्थः । यावत् तत्स्वरूपप्रतिपादनाय भाषाद्रव्याण्यादीयन्ते तावदसङ्ख्येयास्तेऽतिक्रामन्तीत्यर्थः । परमनिरुद्धे हि तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गयोः करणप्रयोगासम्भव इति । कायकरणप्रयोगेण भाषाद्रव्याण्यादाय वाक्पर्याप्तिकरणव्यापारेण निस्सृजति, तयोश्च निसर्गग्रहणविषययोः करणं व्यापारयितुं न शक्यतेऽत्यल्पत्वात्, अतः परमनिरुद्धे तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गासम्भवादवगतिरेव केवला न प्रज्ञापनमस्तीति । अथवाऽऽर्षप्रसिद्धया तुन्नागदार कपट्टशाटिकापाटननिदर्शनात् समयप्रज्ञापना कार्या । एवं तावत् समयः सर्वकालभेदादिवसेयः ।
मा० - ते त्यसङ्ख्येया आवलिका । ताः सङ्ख्येया उच्छ्वासः, तथा निःश्वासः । तौ बलवतः पट्विन्द्रियस्य कल्पस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः । तेऽष्टात्रिंशदधें व नालिका । ते द्वे मुहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पक्षः । तौ दौ शुक्लकृष्णौ मासः । आवलिकादिविचार: तौ द्वौ मासावृतुः । ते प्रयोऽयनम् । ते द्वे संवत्सरः । ते पञ्च चन्द्रचन्द्राभिवर्धित चन्द्राभिवर्धिताख्या युगम् । तन्मध्येऽन्ते चाधिकमासकौ । सूर्यसावन चन्द्रनक्षत्राभिर्वर्धितानि युगनामानि । वर्षशतसहस्रं चतुरशीतिगुणितं पूर्वाङ्गम् । पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् । एवं तान्ययुतकमलनालनकुमुदतुट्यङडाववाहाहाह्ह्चतुरशीतिशतसहस्रगुणाः सङ्ख्येयः कालः ।
२४५८ '३७७३'
टी० - ते घासङ्ख्येयाः समया आवलिका भण्यते सा च जघन्ययुक्त का सङ्ख्ये - यकसमयप्रमाणा भवति । ताः सङ्ख्येयाः (४४४६ 14) सत्य आवलिका एक उच्छ्वासो निःश्वासो वा ऊर्ध्वाधोगमनभेदात् । तावुच्छ्वासनिःश्वासावित्थंप्रमाणौ शारीरबलयुक्तस्यानुपहतकरणग्रामस्य नीरुजस्य मध्यंवयोऽनुप्राप्तस्य मनो दुःखेनानभिभूतस्य पुरुषस्य प्राणो नाम कालविशेषो भवति, बलवदादिविशेषणानि च प्रति विशिष्टोच्छ्वासपरिग्रहणाय, अन्यथा कर्तु भेदादनेकरूपाः समुच्छ्रासनिःश्वासा इति न शक्येत प्रागस्वरूपं निरूपयितुमनवस्थितत्वात्, अत एवंप्रकारस्य पुंसो यावच्छासनिःश्वासाविति । उक्तलक्षणाः प्राणास्ते सप्तसङ्ख्याकाः स्तोको नाम कालविशेषः। ते स्तोकाः सप्त लवोऽभिधीयते । लवानामष्टाधिका त्रिंशलवार्धं च नालिका भवति । नालिकाद्वयं मुहूर्तः । त्रिंशन्मुहूर्तमहोरात्रम् । पञ्चदशभिरहोरात्रैः पक्षः । शुक्लकृष्णौ द्वौ पक्षौ मासः । मासद्वयमृतुर्वसन्तादिभेदः । ऋतुत्रयमयनम् । अयनद्वयं संवत्सरः । ते
१ 'तुशगदारुक् पदशाटिका' इति क-पाठः । २ 'ऽष्टाधिकात्रिंश' इति क- पाठः । ३ जघन्यमध्यमोत्कृष्टपरीत्तयुक्तासंख्यातासंख्यात भेदेनासंख्यातस्य नवविधस्वास्, चतुर्थं चैतत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org