________________
२९१
सूत्रं १५]
स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०--तद्यथा-अणुभागाश्चारा अंशाः कला लवा नालिका मुहूर्ता दिवसा लौकिकसम- रात्रयः पक्षा मासा ऋतवः अयनानि संवत्सरा युगमिति लौकिकालविभागः कसमो विभागः । पुनरन्यो विकल्पः प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः । पुनस्त्रिविधः परिभाष्यते-सङ्ख्येयोऽसङ्ख्येयोऽनन्त इति ॥
टी०-तद्यथा अणुभागाश्चारा अंशाः कला लवा इत्यादि । सर्व एते कालविशेषाभिधायिनः शब्दा इति, एष च लौकिकैः समः-तुल्यो विभागः कालस्य, वैशेषिकपौराणिकादिनिरूपितकालविभागसदृश इत्यर्थः । पुनरन्यो लौकिकसम एव विभागः प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः । प्रत्युत्पन्नो-वर्तमानः, समय एव निश्चयात्, स चातीतानागताभ्यां विना वर्तमानव्यपदेशमेव नाश्नुत इत्यवश्यं तौ तदवधिभूतावेषितव्यौ, सम्बन्धिशब्दत्वादिति । व्यावहारिकस्तु स्वपरिकल्पवशात् प्रत्युत्पन्नादिस्त्रिविधः, प्रत्युत्पन्नो
मुहूर्तादिरनेकभेदः, अनागतो द्विधा-भावतो विषयतश्च, भावतो घटाद्यप्रत्युत्पन्नादीनां भेदान्तरम्
नुत्पादकालः, अप्राप्तदशनो विषयतः, अतीतोऽपि द्विधा-भावविषयभे
दतः, भावतः कुम्भादिविलयः, दर्शनार्ध्व विषयत इति, भावो विषयो वात्रोपलक्षणमात्रमवगन्तव्यमिति । पुनस्त्रिविधः स्वसमये परिभाष्यते-सङ्ख्येयोऽसङ्ख्ययोऽनन्त इति ॥ तत्र सङ्ख्येयादित्रिविधकालस्वरूपपरिज्ञानाय सकलकालभेदादित्वात् समय एव तावत् प्रज्ञाप्यत इत्याहभा०-तत्र परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः स्वाव
- गाहनक्षेत्रव्यतिक्रमकालः समय इत्युच्यते परमदुरधिगमोसमयस्य स्वरूपम् यः । तं हि भगवन्तः परमर्षयः केवलिनो विदन्ति, न तु निर्दिशन्ति, परमनिरुद्धत्वात्, परमनिरुद्ध हि तस्मिन् भाषाद्रव्याणां ग्रहण निसर्गयोः करणप्रयोगासम्भव इति।
टी०-तत्र परमसूक्ष्मक्रियस्येत्यादि । तत्र-एतस्मिन् त्रिविधकालव्याख्याप्रस्तावे समयस्तावदयं भवति, परमसूक्ष्मा क्रिया-गतिपरिणामो यस्य, अत्यन्तजघन्य इति प्रसिद्धतरेण ध्वनिना विवृणोति, परमाणोनिविभागस्य पुद्गलद्रव्यस्य, वावगाहनक्षेत्रव्यतिक्रमकाल इति स्वावगाहक्षेत्रम्-आकाशपरमाणुस्तस्य व्यतिक्रमो-लङ्घनं परित्यागस्तदनन्तरप्रदेशसङ्क्रान्तिरित्यर्थः, स्वावगाहक्षेत्रव्यतिक्रमस्तस्य यः कालः स समय उच्यते । एतदुक्तं भवति-परमाणोः स्वावगाहक्षेत्रात् तदनन्तरवर्तिस्वावगाहक्षेत्रसङ्क्रान्तिक्रियोपलक्षितः कालः समयोऽभिधीयते, स चाविभागः परमनिरुद्धोऽत्यन्तसूक्ष्मत्वात् परमदुरधिगमः परमैरप्यतिशयसम्पन्नैः दुःखेनाधिगम्यते इति । अनिर्देश्यथासौ-न स कालो निर्देष्टुं शक्यते, परमर्षीणां तु स्वप्रत्यक्षत्वात् स्वसुखादिवत्, न नि ठितस्वरूपः परेभ्यः प्रतिपादयितुं शक्यते घटादिवत्,
१ स च मुखादिविनिलुंठित' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org