________________
२९०
तत्वार्थाधिगमसूत्रम्
[ अध्यायः 8
मनुष्य क्षेत्रव्यापी समय एको वर्तमानकालः, स च परस्ताद् वक्ष्यते स्वरूपतः । अत्र च प्रवचने सङ्ग्रहव्यवहारापेक्षयोभयथा प्रस्थानम् । एके मन्यन्ते - जीवाजीवद्रव्ययोरेव पर्यायः कश्चिद् विशिष्टो वर्तनापरिणामक्रियापरापरत्वलक्षणः काल इति व्यपदिश्यते, न पुनर्जीव काशधर्माधर्मपुद्गलद्रव्यव्यतिरिक्तोऽतिस्पष्टलिङ्गः कश्चिद् द्रव्यविशेषः समस्ति, यमुरकालस्य द्रव्यता- रीकृत्येदमभिधानं प्रवर्तिष्यते - कालोऽयमिति । अपि च- पञ्चास्तिकाया उक्ताः प्रवचने, यदि कालोऽपि पृथक् स्यात् षडस्तिकायाः प्रसज्येरन्, अनिष्टं चैतत् । आगमश्च — "किंमिदं भंते ! कालेत्ति वुच्चत्ति १ । गोयमा ! जीवा चैव अजीवा चैव " ( भग० ) । अपरे मन्यन्ते - पञ्चास्तिकायव्यतिरिक्तं कालद्रव्यं षष्ठमस्ति कार्यानुमेयत्वादण्वादिवत्, असति हि नियामकद्रव्ये किसलय कलिकाफलप्रसवपरिणतयः सहकारतरोर्युगपदाविर्भवेयुः, क्रमभाविनी चैषां किसलयादिपरिणतिरुपलभ्यते, ततः शक्यमनुमातुं यदनुरोधादेताः कार्यव्यक्तयस्तारतम्येनात्मातिशयमासादयन्ति सोऽस्त्यत्र कोऽपि कालः । तथादृष्टस्य स तरोरेव कार्याविर्भाव इति चेन्न सततसन्निहितत्वात् समकमेव सकलकार्याविर्भावप्रसङ्गः स्यात् ॥ ननु यस्यापि कालद्रव्यमेकं विविक्तं तस्यापि तत्सन्निधानात् सर्वाः कार्यावस्थाः किमिति युगपन्नानुवर्तन्ते १ । उच्यते-तद्धि शिशिरवसन्तादिभेदेन भिद्यमानमनेकधा कार्यव्यक्तीः सृजति, ते च भेदाः प्रतिविशिष्टपरिणतिमनुरुध्यमाना विविक्तकार्यहेतवस्तस्मादस्तु द्रव्यान्तरं कालः । तथा चागमः - " के णं भंते ! दव्त्रा पण्णत्ता ? गोयमा ! छदव्वा पण्णत्ता, तंजहा - धम्म - त्थिका अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए" (भग० ) । तथा निर्मुक्तिकारेणाप्यावश्यके द्रव्याद्धायथायुष्कादिभेदं कालं व्याचक्षाणेन पृथग्द्रव्यादिभ्यः कालो व्याख्यात इति । पञ्चमेऽध्याये च यदत्र वक्तव्यं तद् वक्ष्यामः । सम्प्रति प्रकृतमनुत्रियते । स एष कालोऽनन्तसमय इति समूहाध्यारोपादुच्यते - वर्तनादीनि लक्षणानि यस्यासौ वर्तनादिलक्षण इत्युक्तं (२२) सूत्रमात्रेण पञ्चमेऽध्याये तस्यैवंविधस्य कालस्य, विभागाः समयावलिकादयो ज्योतिष्काणां गतिविशेषकृताः स्वतः सोऽभिन्नः परोपाधिकं भेदमापद्यते, ते चास्य भेदाः सवितृगतिविशेषेणोपलक्ष्यन्ते, चारविशेषेण हेतुना नक्तंदिवादयः परिस्थूराः, न तु समयादयोऽत्यन्तसूक्ष्माः । केन ह्याकारेण समयप्रज्ञापनायामादित्यगतिरुपलक्षणं स्यात् । तस्मादतिस्थूलः कालः कालभेदेन भिद्यमानो भिद्यमानः परां काष्ठामनुप्राप्तः समय उच्यते । तैर्ज्योतिष्कचारविशेषैः कृतः - उपलक्षितस्तत्कृतः कालस्यायं विभागकलापः परिज्ञेयः, तत्र समयस्यैकत्वाद् विभागाभावः, समूहस्य चामुख्यत्वादेव न विभागः, तस्माद् विभागशब्द उपचारार्थः कल्पितो विभाग इत्यर्थः ॥
१ कोऽयं भदन्त | काल इत्युच्यते ? गौतम | जीवाश्चैव अजीवाश्चैव । २ कति भदन्त । द्रव्याणि प्रज्ञप्तानि ? गौतम ! षड् द्रव्याणि प्रज्ञप्तानि तद्यथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायः अद्धासमयः ।
३ 'उपचारः' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org