SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सूत्रं १५] - स्वोपज्ञभाष्य-टीकालङ्कृतम् २९३ संवत्सराः पञ्च चन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिताख्या युगम् । तत्र चन्द्रसंवत्सरपरिज्ञा नाय चन्द्रमासपरिमाणमेव तावदाख्यायते-एकोनत्रिंशद् दिनानि द्वात्रिंशच चन्द्रमासादीनां तन्नामसंवत्सरा- द्विषष्टिभागा (२९३६ दिवसस्य चन्द्रमासः । एवंप्रकारेण मासेन द्वादशणां च स्वरूपम् __ मासपरिमाणश्चान्द्रः संवत्सरः । स चायं-त्रीणि शतान्यतां चतुष्पश्वाशदुत्तराणि द्वादश द्विपष्टिभागा ( ३५४१२) इति । एतेन शेषाणि चन्द्रसंवत्सराणि व्याख्यातानि॥अधुनाऽभिवर्धितसंवत्सरपरिज्ञानायाभिवर्धितमासोऽभिधीयते-एकत्रिंशद् दिनानि एकविंशत्युत्तरशतं चतुर्विशत्युसरशतभागा ( ३११२४ ) नामभिवर्धितमासः । एवं विधेन मासेन द्वादशमासप्रमाणोऽभिवर्धितसंवत्सरः, स चायं-त्रीणि शतान्यां ज्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागाः ( ३८३४६) । एतैश्चान्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति। तन्मध्येऽन्ते चाधिकमासको तेषां पश्चानां संवत्सराणां मध्येऽभिवर्धिताख्ये संवत्सरेधिकमासकः पतति, अन्ते च अभिवर्धित एव, सूर्यमासस्त्वयमवगन्तव्यः-त्रिंशद् दिनान्यर्ध च(३०), एवंविधद्वादशमासनिष्पन्नः संवत्सरः सावित्रः, स चायं-त्रीणि शतान्यहां षट्पट्यपिकानि(३६६), अनेन च मानेन सर्वकालः सर्वायूंषि समा विभागाच गण्यन्ते । सावनमास स्त्रिंशदहोरात्र एव, एष च कर्ममास ऋतुमासचोच्यते, एवंविधद्वादशमासनिष्पन्नः सावनसंवत्सरः, स चायं-त्रीणि शतान्यहां षष्ट्यधिकानि (३६० )। चन्द्राभिवर्धितायुक्तौ । नक्षत्रमास. स्त्वयं-सप्तविंशतिदिनान्येकविंशतिः सप्तपष्टिभागाः ( २५९), एवंविधद्वादशमासनिष्पन्नो नक्षत्रसंवत्सरः । स चाय-त्रीणि शतान्यहां सप्तविंशत्युत्तराण्येकपञ्चाशच्च सप्तपष्टिभागा (३२७५९) इत्येवं स्वस्वमासनामनिष्पन्नानि युगनामानि भवन्ति । विंशतिभियुगैर्वर्षशतं मवति । दशभिर्वर्षशतैर्वर्षसहस्रम् । वर्षसहस्रं शतगुणं वर्षशतसहस्रम् । तच्चतुरशीति __ गुणितमेकं पूर्वाङ्गम् । पूर्वाङ्गलक्षाः चतुरशी तिगुणिताः पूर्वम् । पूर्वाङ्गादिस्वरूपम् , पूर्वतः पूर्वतो विकल्पात् परः परो विकल्पश्चतुरशीतिलक्षगुणो वेदितव्यः तुव्यङ्गाद्यावच्छीर्षप्रहेलकेति, तुव्यङ्गं तुटिका, अडडाङ्गं अडडा, अववाङ्गं अववा, (हाहाङ्ग हाहा ), हूहङ्गं हूहुका, उत्पलाङ्गं उत्पलम्, पद्माङ्गं पद्मम्, नलिनाङ्गं नलिनम्, अर्थनियूराङ्ग अर्थनिगुरम्, चूलिकाङ्गं चूलिका, शीर्षप्रहेलिकाङ्गं शीर्षप्रहेलिका, प्रावचनक्रमोऽयम्, औचा १'तिलक्षगु०' इति ग-पाठः, स च चिन्तनीयः । २ शीर्षप्रहेलिकानुपादमात् उपलक्षणं, वाचनाभेदेनामिधानभेवस्तु नासंभवी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy