________________
२९४
चारः
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ र्येण त्वन्यथोपात्तः स्वल्पस्थानश्चेति, सर्वथा शीर्षप्रहेलिकान्तः सङ्ख्येयः कालो भवति समयादिरिति । सूर्यप्रज्ञप्तौ तु पूर्वादुपरि लताङ्गादिक्रमः शीर्षप्रहेलिकान्त इति, एतावान् गणितशास्त्र विषयोऽपीति । भा०-अत ऊर्ध्वमुपमानियतं वक्ष्यामः । तद्यथा हि नाम योजनविस्तीर्ण
योजनोच्छ्रायं वृत्तं पल्यमकरानाद्युत्कृष्टसप्तरात्रजातानामङ्गपल्योपमादिवि
व लोन्नां गाढं पूर्ण स्याद्, वर्षशताद वर्षशतादकैकास्मन्नुद्धियमाणे शुद्धिनियमतो यावता कालेन तद् रिक्तं स्यादेतत् पल्योपमम् । तद् दशभिः कोटाकोटिभिगुणितं सागरोपमम् । तेषां कोटाकोट्यश्चतस्रः सुषमसुषमा। तिस्रः सुषमा । द्वे सुषमदुष्षमा । द्विचत्वारिंशद् वर्षसहस्राणि हित्वा एका दुष्षमसुषमा ।वर्षसहस्राणि एकविंशतिदुष्षमा । तावत्येव दुष्षमदुष्षमा ॥
टी०-अत ऊर्ध्वमुपमानियतं वक्ष्याम इति । सङ्ख्येयादनन्तरमसङ्ख्येयः कालो भण्यते । स च गणितविषयातीतत्वादुपमया कयाचिन्नियम्यते, सर्वश्वैष बौद्धो व्यवहारः परप्र. तिपत्तयेऽभ्युगम्यते, बाह्यार्थशून्यत्वात्, अन्यथा परमार्थविचारणायामतिदुष्कर स्यादिदं सर्वम्, तद्यथा होत्यादि यावदेतत् पल्योपममिति सुज्ञानम्,तच त्रिविधम्-उद्धारपल्योपममद्धापल्योपायावा. पमं क्षेत्रपल्योपमं चेति । पुनादरसूक्ष्मभेदादेकैकं द्विधा, तत्रोक्तलक्षणं भान्तरभेदार,तेषां ध्ये बादराद्धापल्यं सङ्ख्येयवर्षकोटिव्यतिक्रान्तिसमकालम् । तान्येव वालाप्रयोजनानि च ग्राण्येकैकशोऽसङ्ख्येयान्यदृश्यानि खण्डानि कृत्वा बुद्धया स एव पल्यो भियते । ततः प्रतिवर्षशतमेकैकवालाग्रोद्धारे वर्षाण्यसङ्ख्येयानि व्यतिक्रामन्त्येतत् सूक्ष्माद्धापल्योपमम्। अस्य च प्रयोजनमुत्सर्पिण्यादिविभागपरिज्ञानम्, ज्ञानावरणादिकर्मस्थितयः कायभवस्थितयश्च पृथिव्यादिकायानां निरूप्यन्त इति । उद्धारपल्योपमं तु बादरं स्थूलवालाग्रापहारे प्रतिसमयमेकैकस्मिन् सति भवति, तच्च सङ्ख्येयसमयपरिमाणं वेदिव्यम् । एतान्येव वालाग्राण्येकैकशोऽसङ्ख्येयखण्डीकृतानि । ततः प्रतिसमयमेकैकवालाग्रोद्धारे वर्षकोटिभिः सङ्ख्येयाभिः सूक्ष्मोद्धारपल्यं भवति । अस्य च प्रयोजनमधेतृतीयसागरोपमोद्धारसमयराशिप्रमाणतुल्या द्वीपस. मुद्रा इति । क्षेत्रपल्योपममपि बादरसूक्ष्मभेदाद् द्विविधम्, बादरलोमखण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं बादरक्षेत्रपल्योपमम्, सूक्ष्मलोमखण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं सूक्ष्मक्षेत्रपल्योपमम्, असङ्ख्योत्सर्पिणीभिश्च परिनिष्ठानमस्य भवति । एतेन च पृथिव्यादिजीवपरिमाणमानीयत इति प्रवचनविदो वर्णयन्ति प्रयोजनम् । एषां च त्रयाणामपि पल्योपमानां प्रत्येक कोटीन कोटी दशगुणिता सती सागरोपममिति व्यपदिश्यते त्रिविधमेव । एषां सागरोपमाणां चतस्रः कोटीकोटयः सुषमसुषमानामकालविशेषः । तिस्रः कोटीकोव्यः सागरोपमाणां
१ इतः परं सद्भावेऽपि गणितस्य न तव्यावहारिकमिति नोक्तम् । २'माणे यावता' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org