________________
.
स्वीपज्ञभा या
सूत्रं १५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२९५ सुषमा। द्वे सागरोपमकोटीकोटयौ सुषमदुष्षमा। द्विचत्वारिंशद्वर्षसहस्राणि हित्वा चैका कोटीनां कोटी दुष्षमसुषमा। एकविंशतिवर्षसहस्राणि दुष्षमा । तावत्येव दुषमदुष्षमा, एकविंशतिवर्षसहस्राणीत्यर्थः।
भा०–एताः अनुलोमप्रतिलोमा अवसर्पिण्युत्सर्पिण्योर्भरतैरावतेष्वनाघनन्तं परिवर्तन्ते अहोरात्रवत् । तयोः शरीरायुःशुभपरिणामानामनन्तगुंणे
... हानिवृद्धी । अशुभपारिणामानां वृद्धिहानी । अवस्थिताऽक्षेत्रापेक्षया कालविचारः र वस्थितगुणाश्चैकैकाऽन्यत्र । तद्यथा-कुरुषु सुधमसुषमा, हरि
रम्यकवासेषु सुषमा, हैमवतहरण्यवतेषु सुषमदुष्षमानुभावः, विदेहेषु सान्तरद्वीपेषु दुष्षमसुषमा इति,एवमादिमनुष्यक्षेत्रे पर्यायापन्नः कालविभागो ज्ञेय इति ॥ १५॥
टी-एताः सुषमदुप्पमाद्या यथोपन्यस्ता आनुलोम्येन पडप्यवसार्पिणीनामकालः शरीरोच्छायायुष्ककल्पवृक्षादिपरिहाणेर्दशसागरोपमकोटीकोट्यः परिमाणतः । तथा प्रातिलोम्येनोत्सर्पिणीनामकालः शरीरोच्छ्रायादिपरिवृद्धेर्दशसागरोपमकोटीकोट्य एव परिमाणतः । एतच्चोत्सर्पिण्यवसर्पिणीकालचक्रकं पञ्चसु भरतेष्वैरावतेषु पञ्चस्वनाद्यन्तं परिवर्तते, यथाऽहोरात्रे-वासरो रजनी वान शक्यते निरूपयितुमादित्वेनान्तत्वेन वाऽनादित्वादहोरात्रचक्रकप्रवृतेस्तथैतदपीति । तत्रावसर्पिण्यां शरीरोच्छायादेरनन्तगुणपरिहाणिः परत परतः। सुपमसुपमायां गव्यूतत्रितयं शरीरोच्छायो मनुष्याणामायुस्त्रीणि पल्योपमानि शुभपरिणामोऽपि कल्पवृक्षादिरनेकः । सुषमायां गव्य॒तद्वयं पल्योपमद्वयं कल्पवृक्षादिपरिणामश्च शुभो हीनतरः । सुपम
र दुष्पमायामेकं गव्यूतमेकं पल्योपमं हीनतरश्च कल्पवृक्षादिपरिणामः । दुकालचक्रे शरीरोउछायादिविचारः
प्पमसुपमायां पञ्चधनुःशतप्रभृति सप्तहस्तान्तं शरीरप्रमाणमायुरपि पूर्वलक्ष
परिमाणं परिहीनश्च कल्पवृक्षादिपरिणामः । दुप्पमायामनियतं शरीरप्रमाणमायुरप्यनियतं वर्षशतादर्वाक पर्यन्ते विंशतिवाणि परमायुः शरीरोच्छायो हस्तद्वयं औपधिवीर्यपरिहाणिरनन्तगुणेति । अतिदुष्पमायामप्यनियतं शरीरोच्छ्रायादि सर्व पर्यन्ते तु हस्तप्रमाणं वपुः परमायुः पोडश वर्षाणि निरवशेषौपधिपरिहाणिश्चेति, एवं वृद्धिः प्रातिलोम्येन वक्तव्या । अशुभानां परिमाणविशेषाणामवसर्पिण्यां वृद्धिरुत्सर्पिण्यां हानिरिति । अवस्थिता स्वरूपेण न भ्रमति । ये च गुणास्तस्यां ते चावस्थिताः कल्पवृक्षादिपरिणामविशेषाः अतोऽवस्थिता (वस्थितगुणा) चान्यत्रैकैका सुपमसुपमादिर्भवति, तद्यथा-देवकुरूत्तरकुरुधुसुषमसुधमानुभावाःसर्वदावस्थिताः,हरिरम्यकवास्येषु सुषमानुभावोऽवस्थितः, हैमवतहरण्यवतेषु सुषमदुप्पभानुभावोऽवस्थितः,विदेहक्षेत्रेषु पट्पञ्चाशत्सु चान्तरद्वीपेषु दुप्पमसुषमानुभावोऽवस्थितः । एवमादिर्मनुष्यक्षेत्रे पर्या
१ 'ताः' इति घ-पाठः । २ - ०गुण' शत घ-पाठः । ३ ' ०णामवृद्धि. ' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org