Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 690
________________ विजयेन वर्धापयन्ति, वर्धापयित्वा महार्थ महार्घ महाई विपुलमिन्द्राभिपेकयोग्य क्षीरोदकादि 'उपनयन्ति' समर्पयन्ति ॥ 'तएण'मित्यादि, ततो णमिति वाक्यालकारे तं विजयं देवं चत्वारि देवसामानिकसहस्राणि चतस्रोऽयमहिष्यः सपरिवारास्तिस्रः पर्पदो यथाक्रममष्टदशद्वादशदेवसहस्रपरिमाणाः सप्तानीकानि सप्तानीकाधिपतय: पोडश आमरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवा देव्यश्च तैः-तद्गतदेवजनप्रसिद्धैः स्वाभाविकैवैकुर्विकैश्च वरकमलप्रतिस्थानैः सुरभिवरवारिप्रतिपूर्णैश्चन्दनकृतचचीकै: 'आविद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूत्रतन्तुभिः पद्मोत्पलपिधानः सुकुमारकरतलपरिगृहीतैरनेकसहस्रसायैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानाम् , अष्टसहस्रेण रूप्यमयानाम् , अष्टसहस्रेण मणिमयानाम् , अष्टसहस्रेण सुवर्णरूप्यमयानाम् , अष्टसहस्रेण सुवर्णमणिमयानाम् , अष्टसहस्रेण रूप्यमणिमयानाम् , अष्टसहस्रेण सुवर्णरूप्यमणिमयाहानाम् , अष्टसहस्रेण भौमेयानां, सर्वसङ्ख्ययाऽष्टभिः सहस्रैश्चतुःपष्टयधिकैः, तथा 'सर्वोदकैः' सर्वतीर्थनद्याादकैः सर्वतुवरैः सर्वपुष्पैः | सर्वगन्धैः सर्वमाल्यैः सर्वोपधिसिद्धार्थकैश्च 'सर्वां ' परिवारादिकया 'सर्वधुत्या' यथाशक्ति विस्फारितेन शरीरतेजसा 'सर्ववलेन'। सामस्येन स्वस्वहस्त्यादिसैन्येन 'सर्वसमुदयेन' स्वस्वाभियोग्यादिसमस्तपरिवारण 'सर्वादरेण' समस्तयावच्छक्तितोलनेन 'सर्वविभूत्या' स्वस्खाभ्यन्तरवैक्रियकरणादिवायरत्नादिसम्पदा, तथा 'सर्वविभूषया' यावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणं ति | सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम इह स्वनायकविषयबहुमानख्यापनार्थपरा स्वनायककार्यसम्पादनाय यावच्छक्ति त्वरितत्वरिता प्रवृत्तिः, सर्वपुष्पवस्त्रगन्धमाल्यालङ्कारेण, अत्र गन्धा-वासा माल्यानि-पुष्पदामानः अलङ्कारा-आभरणानि तत: समाहारो द्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सह सर्वशब्देन विशेपणसमासः, 'सव्वदिव्यतुडियसदनि

Loading...

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824