Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 784
________________ ण'मित्यादि । काञ्चनिकाश्च राजधान्यो यमिकाराजधानीव वक्तव्याः॥'कहिणं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरकुरुषु कुरुषु उत्तरकुरुहदो नाम इदः प्रज्ञप्तः?, भगवानाह-गौतम! नीलवतो इदस्य दाक्षिणात्याचरमपर्यन्तादष्टौ 'चतस्त्रिंशानि' चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च योजनस्य सप्तभागान् अबाधया कृत्वेति गम्यते शीताया महानद्या बहुमध्यदेशभागे अत्रोत्तरकुरुनामा इदः प्रज्ञप्तः, यथैव प्राग नीलवतो हदस्यायामविष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेपपद्मपरिक्षेपत्रयवक्तव्यतोक्ता तथैवेहाप्यन्यूनातिरिक्ता वक्तव्या ॥ नामकरणं पिपृच्छिषुरिदमाह "से केणठेणं भंते !' इत्यादि प्राग्वन्नवरमुत्पलादीनि यस्माद् 'उत्तरकुरुहूदप्रभाणि' उत्तरकुरुहदाकाराणि तेन तानि तदाकारयो* गात् उत्तरकुरुनामा च तत्र देवः परिवसति तेन तद्योगाद् इदोऽप्युत्तरकुरुः, न चैवमितरेतराश्रयदोषप्रसङ्गः, उभयेषामपि नाम्ना मनादिकालं तथा प्रवृत्तेः, एवमन्यत्रापि निर्दोषता भावनीया, उत्तरकुरुनामा च तत्र देवः परिवसति, तद्वक्तव्यता च नीलवन्नागकुमारवद्वक्तव्या, ततोऽप्यसावुत्तरकुरुरिति, राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ॥ चन्द्र हदवक्तव्यतामाह-'कहि णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! उत्तरकुरुहदस्य दाक्षिणात्याश्चरमान्तादर्वाग् दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान योजनस्यावाधया कृत्लेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अत्र। अस्मिन्नवकाशे उत्तरकुरुपु कुरुषु चन्द्रहदो नाम इदः प्रज्ञप्तः, अस्यापि नीलवदुहृदस्येवायामविष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रि-16 सोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यता वक्तव्या, नामान्वर्थसूत्रमपि तथैव, नवरं यका स्मादुत्पलादीनि 'चन्द्रहदप्रभाणि' चन्द्रहदाकाराणि चन्द्रवर्णानि चन्द्रनामा च देवस्तत्र परिवसति तस्माञ्चन्द्रहदाभोत्पलादियो-10

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824