Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 818
________________ सोलससहस्म उचा सहरसमेगं च ओगाढा ॥ २ ॥ देसूणमद्धजोयणलवणसिहोवरि दुगं दुवे कालो । अइरेगं २ परिवडइ हायए वावि ॥ ३ ॥ " सम्प्रति वेलन्धरवक्तव्यतामाह - 'लवणस्स णं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कियन्तो नागसहस्रा नागकुमाराणां भवनपति निकायान्तर्वर्त्तिनां सहस्रा आभ्यन्तरिकीं - जम्बूद्वीपाभिमुखां वेलां - शिखोपरिजलं शिखां च- अर्वाक् पतन्तीं 'धरन्ति' धारयन्ति ? कियन्तो नागसहस्रा बाह्यां धातकीखण्डाभिमुखां वेलां धातकीखण्डद्वीपमध्ये प्रविशन्तीं वारयन्ति ?, कियन्तो वा नागसहस्राः 'अग्रोदकं' देशोनयोजनार्द्धजलादुपरि वर्द्धमानं जलं 'घरन्ति' वारयन्ति ?, भगवानाह - गौतम ! द्विचत्वारिंशन्नागसहस्राण्याभ्यन्तरिकीं वेलां घरन्ति द्वासप्ततिर्नागसहस्राणि बाह्यां वेलां धरन्ति, षष्टिर्नागसहस्राण्यग्रोदकं धरन्ति, उक्तभ्व - "अभितरियं वेलं धरंति लवणोदहिस्स नागाणं । बायाली ससहस्सा दुसत्तरिसहस्सा बाहिरियं ॥ १ ॥ सहिं नागसहस्सा घरंति अग्गोदयं समुद्दस्स” इति । एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायेन एकं नागशतसहस्रं चतुःसप्ततिश्च नागशतसहस्राणि भवन्तीत्याख्यातानि मया शेषैश्च तीर्थकृद्भिः ॥ कति णं भंते! वेलंधरा णागराया पण्णत्ता ?, गोयमा ! चत्तारि वेलंधरा णागराया पण्णत्ता, तंजा - गोभे सिवए संखे मणोसिलए ॥ एतेसि णं भंते! चउन्हं वेलंघरणागरायाणं कति १ पोडश योजनसहस्राणि उच्चा सहस्रमेकं चावगाढा ॥ २ ॥ देशोनमर्द्धयोजनं लवणशिखोपरि द्विवारं द्वयोः कालयोः । अतिरेकमतिरेकं परिवर्द्धते हीयते वाऽपि ॥ ३ ॥ २ आभ्यन्तरिकीं वेठां धारयन्ति लवणोदधेर्नागानां । द्विचत्वारिंशत्सहस्राणि द्विसप्ततिसहस्राणि बाह्या ॥ १ ॥ षष्टिर्नागसहस्राणि धारयन्ति अप्रोदकं समुद्रस्य ।

Loading...

Page Navigation
1 ... 816 817 818 819 820 821 822 823 824