Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 816
________________ 'लवणे णं भंते! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रस्त्रिंशतो मुहूर्त्तानां मध्येऽहोरात्रमध्ये इति भावः 'कतिकृत्वः' कतिवारान् अतिरेकमतिरेकं वर्द्धते हीयते वा ? इति, तदेवं (प्रश्ने) भगवानाह - गौतम ! द्विकृत्वोऽतिरेकमतिरेकं वर्द्धते हीयते वा ॥ 'से केणद्वेणमित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! 'उद्वमत्सु' अधस्तनमध्यमत्रिभागगतवातसङ्क्षोभवशाज्जलमूर्द्धमुत्क्षिपत्सु 'पातालेषु' पातालकलशेषु महत्सु लघुषु च वर्द्धते 'आपूर्यमाणेषु' परिसंस्थिते पवने भूयो जलेन ध्रियमाणेषु 'पातालेषु' पातालकलशेषु महत्सु लघुषु च हीयते 'से एएणट्ठे ण'मित्यादि उपसंहारवाक्यम् ॥ अधुना लवणशिखावक्तव्यतामाह लवणसिहा णं भंते! केवतियं चक्कवालविक्खंभेणं केवतियं अइरेगं २ वडति वा हायति वा?, गोमा ! लवणसहाए णं दस जोयणसहस्साईं चक्कवालविक्खंभेणं देणं अद्धजोयणं अतिरेगं तवा हात वा ॥ लवणस्स णं भंते! समुदस्स कति णागसाहस्सीओ अग्भितरियं वेलं धारंति ?, कइ नागसाहस्सीओ बाहिरियं वेलं घरंति ?, कइ नागसाहस्सीओ अग्गोदयं घरेंति ?, गोमा ! लवणसमुद्दस्स बायालीसं नागसाहस्सीओ अभितरियं वेलं धारेंति, बावत्तरिं णामसाहस्सीओ बाहिरियं वेलं धारेंति, सट्ठि णागसाहस्सीओ अग्गोदयं धारेंति, एवमेव सपुव्वा वरेणं एगा णागसतसाहस्सी चोवत्तरिं च णागसहस्सा भवतीति मक्खाया ॥ ( सू० १५८ ) 'लवणसिहा णं भंते!' इत्यादि, लवणशिखा भदन्त । कियञ्चक्रवालविष्कम्भेन ? कियञ्च 'अतिरेकमतिरेकम्' अतिशयेन २ वर्द्धते हीयते वा ?, भगवानाह - गौतम ! लवणशिखा सर्वतश्चक्रवालविष्कम्भतया 'समा' समप्रमाणा दश योजनसहस्राणि विष्कम्भेन चक्रवा ·

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823 824