Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 804
________________ -ब तद्विष्कम्भस्य द्विगुणलात्, पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचत्वारिंशं च किञ्चिद्विशेषोनं परिक्षेपेण, परिक्षेपप्रमाणं चैतत् परिधिगणितभावनया स्वयं भावनीयं क्षेत्रसमासटीकातो वा परिभावनीयम् ॥ 'से ण'मित्यादि, 'सः' लवणनामा समुद्र एकया पद्मवरवेदिकया, अष्टयोजनोच्छ्रितजगत्युपरिभाविन्येति गम्यते, एकेन वनखण्डेन सर्वतः समन्तात् संपरि| क्षिप्तः, सा च पद्मवरवेदिकाऽर्द्धयोजनमूर्द्धमुच्चस्त्वेन पञ्चधनुःशतानि विष्कम्भतः परिक्षेपतो लवणसमुद्रपरिक्षेपप्रमाणा, वनखण्डो देशोने द्वे योजने, अभ्यन्तरोऽपि पद्मवरवेदिकाया वनषण्ड एवंप्रमाण एव, उभयोरपि वर्णनं जम्बूद्वीपपमवरवेदिकावनपण्डवत् ॥ सम्प्रति द्वारवक्तव्यतामभिधित्सुरिदमाह-'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह-गौतम! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयवैजयन्तजयन्तापराजिताख्यानि ॥ 'कहि ण'मित्यादि, क भदन्त ! लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम !, लवणसमुद्रस्य पूर्वपर्यन्ते धातकीखण्डद्वीपपूर्वार्द्धस्य 'पञ्चत्थिमेण'न्ति पश्चिमभागे शीतोदाया महानद्या उपयंत्रान्तरे लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं, अष्टौ योजनान्यूर्द्धमुचैस्वेन । एवं जम्बूद्वीपगतविजयद्वारसहो दृशमेतदपि वक्तव्यं यावदहून्यष्टावष्टौ मङ्गलकानि यावदहवः सहस्रपत्रहस्तका इति ॥ सम्प्रति विजयद्वारनामनिवन्धनं प्रतिपिपाद यिपुरिदमाह-से केणटेणं भंते' इत्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-विजयद्वारं विजयद्वारम् ? इति, भगवानाह-गौतम! विजये द्वारे विजयो नाम देवो महर्द्धिको यावद् विजयाया राजधान्या अन्येषां च बहूनां विजयाराजधानीवास्तव्यानां वानमन्तराणां देवानां देवीनां चाधिपत्यं यावत्परिवसति, ततो विजयदेवस्वामिकत्वादु विजयमिति, तथा चाह-से एएणतुण'मित्यादि सुगमं ॥'कहि णं भंते' इत्यादि, क भदन्त! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगवानाह-गौतम! विजयद्वारस्य 2525602562551256252557*

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824