Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
जम्बूद्वीपे द्वीपे यो मन्दरपर्वतस्तस्य चतसृषु पूर्वादिषु दिक्षु लवणसमुद्रं पश्चनवतिं पश्चनवतिं योजनसहस्राण्यवगायात्रान्तरे चत्वारो 'महइमहालया' अतिशयेन महान्तो महालिखरं-महापिडहं तत्संस्थानसंस्थिताः, कचित् 'महारंजरसंठाणसंठिया' इति पाठस्तत्रारजर:-अलिजर इति, महापातालकलशा: प्रज्ञप्ताः, उक्तं च-"पणनउइसहस्साई ओगाहित्ता चउदिसिं लवणं । चउरोऽलिंजरसंठाणसंठिया होंति पायाला ॥१॥" तानेव नामतः कथयति, तद्यथा-मेरोः पूर्वस्यां दिशि वडवामुखः दक्षिणस्यां केयूपः अपरस्यां यूपः उत्तरस्यामीश्वरः, ते चत्वारोऽपि महापातालकलशा एकैकं योजनशतसहस्र-लक्षं उद्वेधेन मूले दश योजनसहस्राणि विष्कम्भेन
एकप्रादेशिक्या श्रेण्या विष्कम्भतः प्रवर्द्धमाना २ मध्ये एकैकं योजनशतसहस्रं विष्कम्भेन तत ऊर्द्ध भूयोऽप्येकप्रादेशिक्या 12 श्रेण्या विष्कम्भतो हीयमाना हीयमाना उपरि मुखमूले दश योजनसहस्राणि विष्कम्भतः, उक्तञ्च-"जोयणसहस्सदसगं मूले उवरिं च होंति विच्छिण्णा । मज्झे य सयसहस्सं तेत्तियमेत्तं च ओगाढा ॥१॥" 'तेसि णमित्यादि, तेषां महापातालकलशानां कुड्याः सर्वत्र समा दश योजनशतवाहल्या योजनसहस्रबाहल्या इत्यर्थः, सर्वासना वनमया: 'अच्छा जाव पडिरूवा' इति प्राग्वत् ॥'तत्थ ण'मित्यादि, तेषु वज्रमयेषु कुड्येषु बह्वो जीवाः पृथिवीकायिकाः पुद्गलाश्च 'अपक्रामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते जीवा इति सामर्थ्याद्गम्यं, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वात् , 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमायान्ति, एतञ्च पदद्वयं पुद्गलापेक्षं, पुद्गलानामेव चयापचयधर्मकतया व्यवहारात्, तत एवं सकलकालं तदाकारस्य सदाऽवस्थानात् शाश्वतास्ते कुड्या द्रव्यार्थतया प्रज्ञप्ताः, वर्णपर्यायैः रसपर्यायैः गन्धपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनां प्रतिक्षणं कियत्कालादूई वाsन्यथाऽन्यथा भवनात् ॥ 'तत्थ णमित्यादि, तत्र तेषु चतुर्पु पातालकलशेषु चत्वारो देवा महर्द्धिका यावत्करणान्महाद्युतिका इत्यादि

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824