Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
R
ostruttorty
जनचतुष्टयप्रमाणं प्राप्यते, चतुर्णामपि द्वाराणामेकत्र पृथुत्वमीलने जातान्यष्टादश योजनाति, तानि लवणसमुद्रपरिरयपरिमाणात् पथदश शतसहस्राणि एकाशीतिःसहस्राणि एकोनचत्वारिंशं योजनशतं इत्येवंपरिमाणादपनीयन्ते, अपनीय च यच्छेषं तस्य चतुभिर्भागेऽपहृते यदागच्छति तत् द्वाराणां परस्परमन्तरपरिमाणं, तञ्च यथोक्तमेव, उक्तं च-"आसीया दोन्नि सया पणनउइसहस्स तिन्नि लक्खा य । कोसो ये अंतरं सागरस्स दाराण विनेयं ॥१॥" 'लवणस्से ण भंते ! समुदस्स पदेसा' इत्यादि सूत्रचतुष्टयं प्राग्वद्भावनीयम् ॥ सम्प्रति लवणसमुद्रनामान्वर्थ पृच्छति-से केणछेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-लवणः समुद्रो लवणः समुद्रः ? इति, भगवानाह-गौतम! लवणस्य समुद्रस्य उदकः 'आविलम्' अविमलमस्वच्छं प्रकृत्या 'रइलं' रजोवत् , जलवृद्धिहानिभ्यां पक्कबहुलमिति भावः, लवणं सान्निपातिकरसोपेतत्वाल्लिन्द्रं गोवराक्ष(ख्य)रसविशेषकलितत्वात् , 'क्षारं' तीक्ष्णं लवणरसविशेषवत्त्वात् , 'कटुकं' कटुकरसोपेतत्वात् , अत एवोपद्रवत्रातादपेयं, केषामपेयम् ?-चतुष्पदमृगपक्षसरीसृपाणां, नान्यत्र 'तद्योनिकेभ्यः' लवणसमुद्रयोनिकेभ्यः सत्त्वेभ्यस्तेषां पेयमिति भावः, तद्योनिकतया तेषां तदाहारकत्वात् , तदेवं यस्मात्तस्योदकं लवणमतोऽसौ लवणः समुद्र इति, अन्यच्च 'सुठिए लवणाहिवई' इत्यादि सुगम, नवरमेष भावार्थ:-यस्मात् सुस्थितनामा तदधिपतिः-लवणाधिपतिरिति स्वकल्पपुस्तके प्रसिद्धम् , आधिपत्यं च तस्याधिकृतसमुद्रस्य विषये नान्यस्य ततोऽप्यसौ लवणसमुद्र इति, तथा चाहु-से एएणडेण'मित्यादि ॥ सम्प्रति लवणसमुद्रगतचन्द्रादिसङ्ख्यापरिमाणप्रतिपादनार्थमाह
लवणे णं भंते ! समुद्दे कति चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा?, एवं पंचण्हवि पुच्छा, गोयमा ! लवणसमुद्दे चत्तारि चंदा पभासिंसु वा ३ चत्तारि सूरिया तर्विसु वा ३ बार

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824