Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 805
________________ RASHAREGARIA र पूर्वस्यां दिशि तिर्यगसहयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे विजयस्य देवस्य ३प्रतिपक्ती २ विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयाराजधानीवद्वक्तव्या ॥ सम्प्रति वैजयन्तद्वारप्रतिपादनार्थ- लवणाधिः माह-कहि णं भंते!' इत्यादि, क भदन्त लवणस्य समुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! लवणसमुद्रस्य ८ उद्देशः २ दक्षिणपर्यन्ते धातकीखण्डद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्त, एतद्वक्तव्यता सर्वाऽपि विजयद्वारवद- सू०१५४ * वसेया, नवरं राजधानी वैजयन्तद्वारस्य दक्षिणतो वेदितव्या ॥ जयन्तद्वारप्रतिपादनार्थमाह-कहि णं भंते!' इत्यादि, क भदन्त! 5 लवर्णसमुद्रस्य जयन्तं द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम लवणसमुद्रस्य पश्चिमपर्यन्ते धातकीखण्डपश्चिमार्द्धस्य पूर्वतः शीताया महानद्या उपरि लवणस्य समुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, तद्वक्तव्यताऽपि विजयद्वारवद् 'वक्तव्या, नवरं राजधानी जयन्तद्वारस्य पश्चिमभागे वक्तव्या ॥ अपराजितद्वारप्रतिपादनार्थमाह-कहि णं भंते!' इत्यादि, क भदन्त लवणस्य समुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! लवणसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तं । एतद्वक्तव्यताऽपि विजयद्वारवन्निरवशेषा वक्तव्या, नवरं राजधानी अपराजितद्वारस्योत्तरतोऽवसातव्या ॥ सम्प्रति द्वारस्य द्वारस्यान्तरं प्रतिपादयितुकाम आह-लवणस्स णं भंते!' इत्यादि, लवणस्य भदन्त! समुद्रस्य द्वारस्य २ 'एस णमिति एतद् अन्तरं कियत्या 'अबांधया' अन्तराललाव्याघातरूपया प्रज्ञप्तं ?, भगवानाह-गौतम! त्रीणि योजनशतसहस्राणि पश्चनवतिः सह स्राणि अशीते द्वे योजनशते क्रोशश्चैको द्वारस्य द्वारस्याबाधयाऽन्तरं प्रज्ञप्तं, तथाहिएकैकस्य द्वारस्य पृथुत्वं चत्वारि योजनानि, ॥३०२। + एकैकस्मिंश्च द्वारे एकैका द्वारशाखा क्रोशबाहल्या, द्वारे च द्वे द्वे शाखे, तत एकैकस्मिन् द्वारे पृथुत्वं सामस्त्येन चिन्त्यमानं सार्द्धयो

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824