Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
-++4+SSSSSSSS
है सिद्धायतनानि पूर्ववद्वाच्यानि, उक्तश्च-"अट्ठसहकूउसरिसा सव्वे जंवूनयामया भणिया । तेसुवरि जिणभवणा कोसपमाणा परम-, ३ प्रतिपत्ती
रम्मा ॥१॥" 'जंबूए ण'मित्यादि, जम्ब्वाः सुदर्शनाया द्वादश नामधेयानि प्रज्ञप्तानि, तद्यथा-'सुदंसणे'त्यादि, शोभनं दर्शनं- जम्बूवृक्षादृश्यमानता यस्या नयनमनोहारित्वात् सा सुदर्शना १, यथा च तस्याः शोभनदर्शनं तथाऽसे खयमेव सूत्रकृद् भावयिष्यति, 'अ- धिकारः मोहा य' इति मोघं-निष्फलं न मोघा अमोघा अनिष्फला इत्यर्थः, तथाहि-सा खवामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्य- उद्देशा२ मुपजनयति, तदन्तरेण तद्विषयस्य स्वामिभावस्यैवायोगात् , ततोऽनिष्फलेति २, 'सुप्पबुद्धा' इति सुप्ठ-अतिशयेन प्रबुद्धेव प्रबुद्धा सू०१५२ मणिकनकरनानां निरन्तरं सर्वतश्चाकचिक्येन सर्वकालमुन्निद्रेति भावः ३, 'जसोहरा' इति यशः सकलभुवनव्यापि धरतीति यशोधरा लिहादित्वादच्, जम्बूद्वीपो हि विदितमहिमा भुवनत्रयेऽप्यनया जम्बोपलक्षितस्ततो भवति यथोक्तं यशोधारित्वमस्याः ४, 'सुभद्दा य' इति शोभनं भद्रं-कल्याणं यस्याः सा सुभद्रा, सकलकालं कल्याणभागिनीत्यर्थः, न हि तस्याः कदाचिदप्युपद्रवाः संभवन्ति, महर्द्धिकेनाधिष्ठितत्वात् ५, 'विसाला य' इति विशाला-विस्तीर्णा आयामविष्कम्भाभ्यामुच्चैस्त्वेन चाष्टयोजनप्रमाणत्वात् ६, 'सुजाया' इति शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणिकनकरत्नमूलद्रव्यतया जन्मदोषरहितेति भावः ७, 'सुमणा इय' इति शोभनं मनो यस्याः सकाशाद् भवति सा सुमनाः, भवति हि तां पश्यतां महर्चिकानां मनः शोभनमतिरमणीयत्वात् ८,
'विदेहर्जवू' इति, विदेहेषु जम्बूर्विदेहजम्बूर्विदेहान्तर्गतोत्तरकुरुकृतनिवासत्वात् ९, 'सोमणसा' इति सौमनस्यहेतुत्वात् सौमनस्या, * नाह ता पश्यतः कस्यापि मनो दुष्टं भवति, केवलं तां दृष्ट्वा प्रीतमनास्तां तदधिष्ठातारं च प्रशंसतीति १०, 'नियता' इति नियता
१ अष्टौ ऋषभकूटसदृशा सर्वे जम्बूनदमया भनिता । तेषामुपरि जिनभवनानि कोशप्रमाणानि परमरम्याणि ॥१॥ . .

Page Navigation
1 ... 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824