Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
सर्वकालमवस्थिता शाश्वतखात् ११, 'नित्यमंडिता' सदा भूषणभूषितखात् १२ । 'सुदंसणाए' इत्यादि तान्येतानि सुर्शनाया जम्ब्वा द्वादश नामधेयानि ॥ सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिच्छिषुरिदमाह-'सेकेणटेणं भंते' इत्यादि प्रतीतं, निर्वचनमाह-गोयमे'यादि सुगम, नवरम् 'अणाढिए नाम देवे' इति, अनादृताः-अनादरक्रियाविषयीकृताः शेषा जम्बूद्वीपगता देवा येनासनोऽत्यद्भुतं महर्द्धिकत्वमीक्षमाणेन सोऽनाहतः, सकलनिर्वचनभावार्थश्चाय-यस्मादेवं महर्द्धिकोऽनादृतनामा देवस्तत्र परिवसति ततस्तस्य समस्ताऽपि स्फातिः तत्र कृतावासेति सा सुदर्शनाऽनाहता, राजधानीवक्तव्यताऽपि प्राग्वद्वक्तव्या, तदेवं यस्मादेवंरूपया जम्वोपलक्षित एष द्वीपस्तस्माजम्बूद्वीप इत्युच्यते, अथवेदं जम्बूद्वीपशब्दप्रवृत्तिनिमित्तमिति दर्शयति-'अदुत्तरं च ण'| मित्यादि, अथान्यत् जम्बूद्वीपशब्दप्रवृत्तिकारणमिति गम्यते, गौतम! जम्बूद्वीपे द्वीपे उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य | तत्र तत्र प्रदेशे बहवो जम्बूवृक्षा जम्बूवनानि जम्बूषण्डाः, इहैकजातीयवृक्षसमुदायो वनं, अनेकजातीयवृक्षसमूहो वनपण्डः, केवलं प्रधानेन व्यपदेश इति जम्बूवनं जम्बूषण्ड इति भेदेनोपात्तं, 'निश्चंकुसुमिया' इत्यादि विशेषणकदम्बकं प्राग्वत् , तत एप द्वीपो जम्बू| द्वीपः, तथा चाह-'से एएणद्वेण'मित्यादि ॥ सम्प्रति जम्बूद्वीपगतचन्द्रादिसङ्ख्यापरिज्ञानार्थमाह- .
जंबूद्दीवे णं भंते! दीवे कति चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा? कति सूरिया तविंसु वा तवंति वा तविस्संति वा? कति नक्खत्ता जोयं जोयंसु वा जोयंति वा जोएस्संति वा? कति महग्गहा चारं चरिंसु वा चरिंति वा चरिस्संति वा? केवतिताओ तारागणकोडाकोडीओ सोहंसु वा सोहंति वा सोहेस्संतिवा?, गोयमा! जंबूद्दीवे णं दीवे दो चंदा पभासिंसु

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824