Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
-
-
-
जिणुस्सेहपमाणमेत्ताणं समिक्खित्ताणं चिट्ठई' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'अट्ठसयं धूक्कदुच्छयाण समिक्खित्ताणं चिट्ठ इति पदं, "सिद्धाययणस्स उप्पि अट्ठमंगलगा' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा' इति, सर्वत्रापि च व्याख्याऽपि पूर्व-12 वत् ॥'जंबू णं सुदंसणा' इत्यादि, जम्बूः सुदर्शना द्वादशभिः पद्मवरवेदिकाभिः 'सर्वतः' सर्वासु दिक्षु 'समन्तत सामस्येन संपरिक्षिप्ता । वेदिकावर्णनं प्राग्वत् । 'जंबू णमित्यादि, जम्बूः सुदर्शना अन्येन जम्बूनामष्टशतेन तदद्धोच्चत्वप्रमाणमात्रेण 'सर्वतः'
दिक्ष 'समन्ततः' सामस्त्येन संपरिक्षिप्ता । तदोच्चप्रमाणमेव भावयति-ताओ 'मित्यादि, 'ताः' अष्टोत्तरशतसङ्ख्या जम्वाः प्रत्येकं चत्वारि योजनान्यूर्द्धमुच्चैस्त्वेन क्रोशमुद्वेधेन योजनमेकं स्कन्धः क्रोशं वाहल्येन स्कन्धः, त्रीणि योजनानि विडिमाऊर्द्र विनिर्गता शाखा बहुमध्यदेशभागे चत्वारि योजनान्यायामविष्कम्भाभ्याम् , ऊर्दाधोरूपेण सातिरेकाणि चत्वारि योजनानि सर्वाप्रेणा उद्वेधपरिमाणमीलनेनेति भावः । 'वइरामयमूलरययसुपइट्ठिया विडिमा' इत्यादिवर्णनंपूर्ववत्तावद्वक्तव्यं यावदधिकं नयनमनोनिवृत्तिकार्यः, प्रासादीया यावत्प्रतिरूपाः ॥ 'जंबूए णमित्यादि, 'जंबूए णं सुदंसणाए' इत्यादि, जम्ब्वाः सुदर्शनाया अवरोसरस्यामुत्तरस्यामुत्तरपूर्वस्यां, अत एवासु तिसृषु दिक्ष्वनादृतस्य देवस्य जम्बूद्वीपाधिपतेश्चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि जम्बूसहस्राणि प्रज्ञप्तानि, पूर्वस्यां चतसृणामप्रमहिषीणां योग्यानि चतस्रो, महाजम्वा दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यान्यष्टौ जम्बूसहस्राणि, दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश जम्बूसहस्राणि, दक्षिणापरस्यां बाह्यपर्षदो द्वादश देवसहस्राणां योग्यानि द्वादश जम्बूसहस्राणि, अपरस्यां सप्तानामनीकाधिपतीनां योग्यानि सप्त महाजम्ब्वः, ततः ससु दिनु-षोडशानामारझदेवसहस्राणां योग्यानि षोडश जम्बूसहस्राणि प्रजातानि ॥ 'जंबू णं सुदंसणा' इत्यादि, सा जम्बूः सुद

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824