________________
ण'मित्यादि । काञ्चनिकाश्च राजधान्यो यमिकाराजधानीव वक्तव्याः॥'कहिणं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरकुरुषु कुरुषु उत्तरकुरुहदो नाम इदः प्रज्ञप्तः?, भगवानाह-गौतम! नीलवतो इदस्य दाक्षिणात्याचरमपर्यन्तादष्टौ 'चतस्त्रिंशानि' चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च योजनस्य सप्तभागान् अबाधया कृत्वेति गम्यते शीताया महानद्या बहुमध्यदेशभागे अत्रोत्तरकुरुनामा इदः प्रज्ञप्तः, यथैव प्राग नीलवतो हदस्यायामविष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेपपद्मपरिक्षेपत्रयवक्तव्यतोक्ता तथैवेहाप्यन्यूनातिरिक्ता वक्तव्या ॥ नामकरणं पिपृच्छिषुरिदमाह
"से केणठेणं भंते !' इत्यादि प्राग्वन्नवरमुत्पलादीनि यस्माद् 'उत्तरकुरुहूदप्रभाणि' उत्तरकुरुहदाकाराणि तेन तानि तदाकारयो* गात् उत्तरकुरुनामा च तत्र देवः परिवसति तेन तद्योगाद् इदोऽप्युत्तरकुरुः, न चैवमितरेतराश्रयदोषप्रसङ्गः, उभयेषामपि नाम्ना
मनादिकालं तथा प्रवृत्तेः, एवमन्यत्रापि निर्दोषता भावनीया, उत्तरकुरुनामा च तत्र देवः परिवसति, तद्वक्तव्यता च नीलवन्नागकुमारवद्वक्तव्या, ततोऽप्यसावुत्तरकुरुरिति, राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ॥ चन्द्र हदवक्तव्यतामाह-'कहि णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! उत्तरकुरुहदस्य दाक्षिणात्याश्चरमान्तादर्वाग् दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान योजनस्यावाधया कृत्लेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अत्र। अस्मिन्नवकाशे उत्तरकुरुपु कुरुषु चन्द्रहदो नाम इदः प्रज्ञप्तः, अस्यापि नीलवदुहृदस्येवायामविष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रि-16
सोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यता वक्तव्या, नामान्वर्थसूत्रमपि तथैव, नवरं यका स्मादुत्पलादीनि 'चन्द्रहदप्रभाणि' चन्द्रहदाकाराणि चन्द्रवर्णानि चन्द्रनामा च देवस्तत्र परिवसति तस्माञ्चन्द्रहदाभोत्पलादियो-10