Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 740
________________ यथोक्तप्रमाणोपपन्नत्वेन शोभनजन्मानि यानि सर्वाणि उर:शिरःप्रभृतीन्यगानि तैः सुन्दरमङ्ग-समयं वपुर्येषां ते सुजातसर्वाइसन्दरागाः, 'सुपइट्ठियकुम्मचारुचरणा' इति सुप्ठ-शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्मवदुन्नतत्वेन चारवश्चरणा:-पादा येपां ते सुप्रतिष्ठितकूर्मचारुचरणाः, 'रत्तुप्पलपत्तमउयसुकुमालकोमलतला' इति रक्तं-लोहितमुत्पलपत्रवत् मृदु-मार्दवोपेतमकर्कशमिति भावः तचासुकुमारमपि संभवति यथा घृष्टमृष्टपाषाणप्रतिमा तत आह-सुकुमारं-शिरीपकुसुमवदकठिनं कोमलं-मनोज्ञं चरणतलं येपां ते रक्तोत्पलपत्रमृदुसुकुमारकोमलतलाः, तथा 'नगनगरमगरसागरचकंकहरंकलक्खणंकियचलणा' नग:-पर्वतः नगरमकरसागरचक्राणि-प्रतीतानि अङ्कधर:-चन्द्रमा अङ्कः-तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येपां ते नगनगरमकरसागरचक्राङ्कधराङ्कलक्षणाद्वितचरणाः, 'अणुपुव्वसुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वाः, किमक्तं भवति-पर्वस्याः पूर्वस्या उत्तरोत्तरा नखं नखेन हीनाः "नहं नहेण हीणाओ" इति सामुद्रिकशास्त्रवचनात् सुसंहता:-सुश्लिष्टा अङ्गलयो येपां ते अनुपूर्वसुसंहनाङ्गलीकाः, 'उन्नयतणुतंबनिद्धनखा' उन्नता-ऊर्द्ध नतास्तनवस्ताम्राः 'स्निग्धाः' स्निग्धच्छाया नखाः पादगता इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येपां ते उन्नततनुताम्रस्निग्धनखाः, 'संठियसुसिलिट्ठगूढगुप्फा' सम्यकखरूपप्रमाणतया स्थितौ संस्थितौ सुश्लिष्टौ-मांसलौ गुल्फौ-गुलुको येपां ते संस्थितसुश्लिष्टगूढगुल्फाः, 'एणीकुरुविंदवत्तवट्टाणुपुव्वजंघा' इति एण्या इव-हरिण्या इव कुरुविन्दस्येव वर्त-सूत्रवलनकं तस्येव वृत्ते-वर्तुले आनुपूर्येण-क्रमेण ऊई रे स्थूरतरे इति गम्यं जङ्ग्रे येपां ते एणीकुरुविन्दवर्त्तवृत्तानुपूर्वजङ्घाः 'समुग्गनिमग्गगूढजाणू' समुद्कस्येव-समुद्गकपक्षिण इव निमग्ने-अन्तःप्रविष्टे गूढेमांसलवादनुद्धते जानुनी-अष्ठीवन्तौ येपां ते समुद्गनिमनगूढजानवः, "गयससणसुजायसन्निभोरू' गजो-हस्ती श्वसिति-प्राणित्यनेनेति। LASSANCSC-NCRENCH- C 2-562-% OLMCLR0 +

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824