________________
यथोक्तप्रमाणोपपन्नत्वेन शोभनजन्मानि यानि सर्वाणि उर:शिरःप्रभृतीन्यगानि तैः सुन्दरमङ्ग-समयं वपुर्येषां ते सुजातसर्वाइसन्दरागाः, 'सुपइट्ठियकुम्मचारुचरणा' इति सुप्ठ-शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्मवदुन्नतत्वेन चारवश्चरणा:-पादा येपां ते सुप्रतिष्ठितकूर्मचारुचरणाः, 'रत्तुप्पलपत्तमउयसुकुमालकोमलतला' इति रक्तं-लोहितमुत्पलपत्रवत् मृदु-मार्दवोपेतमकर्कशमिति भावः तचासुकुमारमपि संभवति यथा घृष्टमृष्टपाषाणप्रतिमा तत आह-सुकुमारं-शिरीपकुसुमवदकठिनं कोमलं-मनोज्ञं चरणतलं येपां ते रक्तोत्पलपत्रमृदुसुकुमारकोमलतलाः, तथा 'नगनगरमगरसागरचकंकहरंकलक्खणंकियचलणा' नग:-पर्वतः नगरमकरसागरचक्राणि-प्रतीतानि अङ्कधर:-चन्द्रमा अङ्कः-तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येपां ते नगनगरमकरसागरचक्राङ्कधराङ्कलक्षणाद्वितचरणाः, 'अणुपुव्वसुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वाः, किमक्तं भवति-पर्वस्याः पूर्वस्या उत्तरोत्तरा नखं नखेन हीनाः "नहं नहेण हीणाओ" इति सामुद्रिकशास्त्रवचनात् सुसंहता:-सुश्लिष्टा अङ्गलयो येपां ते अनुपूर्वसुसंहनाङ्गलीकाः, 'उन्नयतणुतंबनिद्धनखा' उन्नता-ऊर्द्ध नतास्तनवस्ताम्राः 'स्निग्धाः' स्निग्धच्छाया नखाः पादगता इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येपां ते उन्नततनुताम्रस्निग्धनखाः, 'संठियसुसिलिट्ठगूढगुप्फा' सम्यकखरूपप्रमाणतया स्थितौ संस्थितौ सुश्लिष्टौ-मांसलौ गुल्फौ-गुलुको येपां ते संस्थितसुश्लिष्टगूढगुल्फाः, 'एणीकुरुविंदवत्तवट्टाणुपुव्वजंघा' इति एण्या इव-हरिण्या इव कुरुविन्दस्येव वर्त-सूत्रवलनकं तस्येव वृत्ते-वर्तुले आनुपूर्येण-क्रमेण ऊई रे स्थूरतरे इति गम्यं जङ्ग्रे येपां ते एणीकुरुविन्दवर्त्तवृत्तानुपूर्वजङ्घाः 'समुग्गनिमग्गगूढजाणू' समुद्कस्येव-समुद्गकपक्षिण इव निमग्ने-अन्तःप्रविष्टे गूढेमांसलवादनुद्धते जानुनी-अष्ठीवन्तौ येपां ते समुद्गनिमनगूढजानवः, "गयससणसुजायसन्निभोरू' गजो-हस्ती श्वसिति-प्राणित्यनेनेति।
LASSANCSC-NCRENCH-
C
2-562-%
OLMCLR0
+