Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
कभी येषां ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झपोदरा' झषस्येवोदरं येषां ते झषोदराः, 'सुइकरणा' इति शुचीनि-पवित्राणि निरुपले-13 पानीति भावः करणानि-चक्षुरादीनीन्द्रियाणि येषां ते शुचिकरणाः, कचिदेव 'पम्हवियडनाभा' इति पाठस्तत्र पद्मवद् विकटा-वि
तीर्ण नाभिर्येषां ते पद्मविकटनाभाः, अत एव निर्देशादनाम्यपि समासान्तः, एवमुत्तरपदेऽपि, 'गंगावत्तयपयाहिणावत्ततरंगभंगहररविकिरणतरुणब्रोहियअ(आ)कोसायंतपउमगंभीरवियडनाभा' गगावर्त्तक इव दक्षिणावर्त्ता तरङ्गैरिव तरङ्गैस्तिमृभिर्वलिभिर्भरा
तरद्धभकरा रविकिरणैः-सूर्यकरैस्तरुणं-नवं तत्प्रथमं तत्कालमित्यर्थः यद्वोधितं-उन्निद्रीकृतमत एव 'आकोसायंत' इत्याकोशायमानं विकपीभवदित्यर्थः पद्यं तद्वद गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्त्तकप्रदक्षिणावर्त्ततरङ्गभङ्गररविकिरणतरुणवोधितांकोशायमानपद्मगम्भीरविकटनाभाः, 'उजुयसमसहियसुजायजच्चतणुकसिणनिद्धआइज्जलडहसुकुमालमिउरमणिजरोमराई' अरजुका-न वक्रा समान काप्युहन्तुरा सहिता-सन्तता न त्वपान्तरालव्यवच्छिन्ना सुजाता-मजन्मा न तु कालादिवैगुण्याहुर्जन्मा अत एव जात्याप्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा, कृष्णमपि किञ्चिन्निर्दीप्तिकं भवति तत आह-स्निग्धा आदेया-दर्शनपथमुपगता सती उपादेया सुभगा इति भावः, एतदेव विशेषणद्वारेण समर्थयते-'लडहा' सलवणिमा अत एव आया, तथा सुकुमारा-अकठिना, तत्राकठिनमपि किश्चित्कर्कशस्पर्श भवति तत आह-मृद्वी अत एव रमणीया-रम्या रोमराजि:-तनूरुहपतिर्येषां ते ऋजुकरामसहितसुजातजात्यतनुकृष्णस्निग्धादेयलटहसुकुमारमृदुरमणीयरोमराजयः, 'सन्नयपासा' सम्यग-अधोऽध:क्रमेण नतो पावौं येषां ते सन्नतपाः अधोऽधःक्रमावनतपार्था इत्यर्थः, तथा 'संगयपासा' इति संगतौ-देहप्रमाणोचितौ पाश्वौं येषां ते सङ्गतपार्था अत एव सुन्दरपार्थाः 'सुजायपासा' इति सुनिष्पन्नपार्शः 'मियमाइयपीणरइयपासा' मितं-परिमितं यथा भवति देहानुसारेणेत्यर्थः आयतौ-दीघों पीनौ

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824