Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 759
________________ • भगवानाह—गौतम! नायमर्थः समयों, वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता है श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंते!' इत्यादि, सन्ति भदन्त । उत्तरकुरुपु कुरुपु प्रामा इति वा यावत्सन्निवेशा इति वा, यावत्करणान्नगरादिपरिग्रह, तंत्र प्रसन्ति बुद्ध्यादीन् गुणानिति यदिवा गम्याः - शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इति निपातनान्नबोऽनादेशाभावः, निगमा:- प्रभूतवणिग्वर्गावासाः, पांशुप्राकारनिबद्धानि सेटानि, क्षुल्लप्राकारवेष्टितानि कर्यटानि, अर्द्धवृतीयगव्यूतान्तर्ग्रामरहितानि मडम्वानि, 'पट्टणाइ वेति पट्टनानि पत्तनानि वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्नौभिरेव गम्यं तत्पट्टनं, यत्पुनः शकटैर्योटकैनोभिच गम्यं तत्पत्तनं यथा भरुकच्छं, उक्तं च "पत्तनं शकटैर्गम्यं, घोटकैर्नीभिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्ष्यते ॥ १ ॥” द्रोणमुखानि - बाहुल्येन जलनिर्गमप्रवेशानि, आकरा - हिरण्याकरादयः, आश्रमा:-तापसावसथोपलक्षिता आश्रयाः, संवाधा-यात्रासमागतप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा वसति, सन्निवेशा इति-सन्निवेशो यत्र सार्थादिवासितः, भगवानाह - गौतम ! नायमर्थः समर्थो, यद् - यस्मान्नेच्छितकामगामिनःन इच्छितं—इच्छाविषयीकृतं नेच्छितं, नायं नन् किन्तु नशब्द इत्यत्रा (ना) देशाभावो यथा 'नैके द्वेपस्य पर्याया' इत्यत्र, नेच्छितं - इच्छाया अविषयीकृतं कामं–खेच्छया गच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ॥ 'अस्थि णं | भंते' इत्यादि, सन्ति भदन्त उत्तरकुरुषु कुरुषु 'असयः' अस्युपलक्षिताः सेवकाः पुरुषाः, मपीति वा मप्युपलक्षिता लेखनजीविनः, कृषिरिति कृषिकर्मोपजीविनः, 'पणी'ति पणितं पण्यमिति वा क्रयविक्रयोपजीविनः, वाणिज्यमिति वाणिज्यकलोपजीविनः १, भगवानाह-गौतम ! नायमर्थः समर्थो, व्यपगतासिमपीकृषिपण्यवाणिज्यास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंते ' ३ प्रतिपत्ती देवकुर्वधिकारः उद्देशः २ सू० १४७ ॥ २७९ ॥

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824