________________
•
भगवानाह—गौतम! नायमर्थः समयों, वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता है श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंते!' इत्यादि, सन्ति भदन्त । उत्तरकुरुपु कुरुपु प्रामा इति वा यावत्सन्निवेशा इति वा, यावत्करणान्नगरादिपरिग्रह, तंत्र प्रसन्ति बुद्ध्यादीन् गुणानिति यदिवा गम्याः - शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इति निपातनान्नबोऽनादेशाभावः, निगमा:- प्रभूतवणिग्वर्गावासाः, पांशुप्राकारनिबद्धानि सेटानि, क्षुल्लप्राकारवेष्टितानि कर्यटानि, अर्द्धवृतीयगव्यूतान्तर्ग्रामरहितानि मडम्वानि, 'पट्टणाइ वेति पट्टनानि पत्तनानि वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्नौभिरेव गम्यं तत्पट्टनं, यत्पुनः शकटैर्योटकैनोभिच गम्यं तत्पत्तनं यथा भरुकच्छं, उक्तं च "पत्तनं शकटैर्गम्यं, घोटकैर्नीभिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्ष्यते ॥ १ ॥” द्रोणमुखानि - बाहुल्येन जलनिर्गमप्रवेशानि, आकरा - हिरण्याकरादयः, आश्रमा:-तापसावसथोपलक्षिता आश्रयाः, संवाधा-यात्रासमागतप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा वसति, सन्निवेशा इति-सन्निवेशो यत्र सार्थादिवासितः, भगवानाह - गौतम ! नायमर्थः समर्थो, यद् - यस्मान्नेच्छितकामगामिनःन इच्छितं—इच्छाविषयीकृतं नेच्छितं, नायं नन् किन्तु नशब्द इत्यत्रा (ना) देशाभावो यथा 'नैके द्वेपस्य पर्याया' इत्यत्र, नेच्छितं - इच्छाया अविषयीकृतं कामं–खेच्छया गच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ॥ 'अस्थि णं | भंते' इत्यादि, सन्ति भदन्त उत्तरकुरुषु कुरुषु 'असयः' अस्युपलक्षिताः सेवकाः पुरुषाः, मपीति वा मप्युपलक्षिता लेखनजीविनः, कृषिरिति कृषिकर्मोपजीविनः, 'पणी'ति पणितं पण्यमिति वा क्रयविक्रयोपजीविनः, वाणिज्यमिति वाणिज्यकलोपजीविनः १, भगवानाह-गौतम ! नायमर्थः समर्थो, व्यपगतासिमपीकृषिपण्यवाणिज्यास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंते '
३ प्रतिपत्ती देवकुर्वधिकारः उद्देशः २
सू० १४७
॥ २७९ ॥