________________
इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुपु हिरण्यमिति वा - हिरण्यं - अघटितं सुवर्णे कांस्यं - कांस्यभाजनजाति: 'दूस' मिति वा दूष्यं वस्त्रजातिः, मणिमौक्तिकशङ्ख शिलाप्रवालसत्सारखापतेयानि वा, तत्र मणिमौक्तिकशङ्ख शिलाप्रवालानि प्रतीतानि सद्- विद्यमानं सारं - प्रधानं स्वापतेयं धनं सत्सारस्वापतेयं, भगवानाह - हन्ता ! अस्ति, 'नो चेव ण'मित्यादि, न पुनस्तेषां मनुजानां तद्विषयस्तीत्रो ममत्वभावः समुत्पद्यते, मन्दरागादितया विशुद्धाशयत्वात् ॥ 'अत्थि णं भंते !" इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुपु राजेति वा राजा - चक्रवर्त्ती बलदेववासुदेवो महामाण्डलिको वा युवराज इति वा - उत्थिताशन: ईश्वरो - भोगिकादि, अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इत्येके, तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तरत्नालङ्कृतसौवर्णपट्ट विभूषितशिराः, कौटुम्बिक इति वा, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, माडम्बिक इति वा, यस्य प्रत्यासन्नं ग्रामनगरादिकमपरं नास्ति तत्सर्वत रिछन्नं जनाश्रयविशेषरूपं मडम्बं त स्याधिपतिर्माडम्बिकः, इभ्य इति वा, इभो - हस्ती तत्प्रमाणं द्रव्यमर्हतीतीभ्यः, यत्सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रेष्ठीति वा श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेप: श्रेष्ठी, सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुः सेनापतिः, सार्थवाह इति वा, "श्रीणिमं धरिमं मेजं पारिच्छं चैव दव्वजायं तु । घेत्तूणं लाभत्थं वञ्चइ जो अन्नदेसं तु ॥ १ ॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाह - नामं धणो व्व लोए समुव्वहइ || २ ||” एतल्लक्षणयुक्तः सार्थवाहः, भगवानाह - गौतम ! नायमर्थः समर्थो, व्यपगतर्द्धिसत्कारा
१ गणिमं धरिमं मेयं परिच्छेद्यं चैव द्रव्यजातं तु । गृहीत्वा लाभार्थे व्रजति योऽन्यदेशं तु ॥ १ ॥ नृपबहुमतः प्रसिद्धो दीनानाथाना वत्सल पथि । स सार्थ - वाहनामधन इव लोके समुद्वहति ॥ २ ॥