________________
30796436 HALASH
SGARHI
व्यपगता ऋद्धिः-विभवैश्वर्य सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा उत्तरकुरुवास्तव्या मनुजाः प्रज्ञप्ता हे श्रमण' हे आयुष्मन् । ४३ प्रतिपच्ची ५ 'अत्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुपु दास इति वा, दास:-आमरणं क्रयक्रीतः, प्रेष्य इति वा, प्रेष्यः- देवकुर्व
प्रेषणयोग्यः, शिष्य इति वा, शिष्यः-उपाध्यायस्योपासकः, भृतक इति वा, भृतको-नियतकालमधिकृत्य वेतनेन कर्मकरणाय धृतः, धिकारः ॐ भागिल्लए'ति वा भागिक इति वा, भागिको नाम द्वितीयांशस्य चतुर्थाशस्य वा ग्राहकः, कर्मकारपुरुप इति वा, कर्मकारो लोहा- उद्देशः२
रादिः कर्मकारः?, भगवानाह-गौतम! नायमर्थः समर्थो, व्यपगताभियोग्यास्ते मनुजा: प्रज्ञप्ताः, अभिमुखं कर्मसु युज्यते व्यापार्यत सू०१४७ इति वाऽभियोग्यस्तस्य भावः कर्म वा आभियोग्यं, 'व्यजनाद् यपंचमस्य सरूपे वा' इत्येकस्य यकारस्य लोपः, व्यपगतमाभियोग्यं येभ्यस्ते तथा हे श्रमण! हे आयुष्मन् ! । 'अत्थि णं भंते!' इत्यादि, अस्ति भदन्त । उत्तरकुरुपु कुरुपु मातेति वा पितेति वा भ्रातेति वा भगिनीति वा भार्येति वा सुत इति वा दुहितेति वा सुपेति वा?, तत्र माता-जननी पिता-जनकः सहोदरो-भ्राता सहोदरी-भगिनी वधू-भार्या सुतः-पुत्रः सुता-दुहिता पुत्रवधूः-स्नुपा, भगवानाह-हन्त । अस्ति, तथाहि-या प्रसूते सा जननी, यो बीजं निषिक्तवान् स पिता विवक्षितः पुरुपः, सहजातो यो भ्राता एकमातृपितृकत्वात् , इतरा तस्य भगिनी, भोग्यत्वाद् भार्या, स्वमातापित्रोः स पुत्र इतरा दुहिता, स्वपुत्रभोग्यत्वात्स्नुपेति, 'नो चेव ण'मित्यादि, न पुनस्तेषां मनुजानां तीनं प्रेमरूपं बन्धनं समुत्पद्यते, तथा क्षेत्रवाभाव्यात् प्रतनुप्रेमबन्धनास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ॥ 'अत्थि णं भंते' इत्यादि, अस्ति भदन्त | उत्तरकुरुपु कुरुपु अरिरिति वा-शयुः वैरीति वा-जातिनिबद्धवैरोपेतः, घातक इति वा, घातको योऽन्येन घातयति, वधक इति वा, वधकः-स्वयं हन्ता, प्रत्यनीक इति वा, प्रत्सनीक:-छिद्रान्वेपी, प्रत्यमित्र इति वा, प्रत्य मित्रो यः पूर्व मित्रं भूखा पश्चाद
॥२८ ॥