________________
मित्रो जात: ?, भगवानाह - नायमर्थः समर्थो, व्यपगतवैरानुबन्धास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अत्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु मित्रमिति वा मित्र - स्नेहविषयः, वयस्य इति वा - समानवया गाढतरस्नेहविषयः, सखा इति वा - समानखादनपानो गाढतमस्नेहस्थानं, सुहृदिति वा, सुहृत् - मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च, साङ्गतिक इति वा, साङ्गतिक: - सङ्गतिमात्रघटितः ?, भगवानाह - नायमर्थः समर्थो, व्यपगतस्नेहानुरागास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अत्थि णं भंते!" इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु 'आवाहा इति वा' आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाह :- विवाहात्पूर्वस्ताम्बूलदानोत्सवः, वीवाहा इति वा, वीवाह: -परिणयनं, यज्ञा इति वा, यज्ञा:- प्रतिदिवसं स्वखेष्टदेवतापूजा:, श्राद्धानीति वा, श्राद्धं पितृक्रिया, स्थालीपाका इति वा, स्थालीपाकः - प्रतीतः, मृतपिण्डनिवेदनानीति वा मृतेभ्यः श्मशाने तृतीयनवमादिषु दिनेषु पिण्डनिवेदनानि मृतपिण्डनिवेदनानि, चूडोपनयनानीति वा, चूडोपनयनं - शिरोमुण्डनं, सीमन्तोन्नयनानीति वा, सीमन्तोन्नयनं - गर्भस्थापनं १, भगवानाह - नायमर्थः समर्थो, व्यपगतावाहवीवाह यज्ञ श्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अत्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु नटप्रेक्षेति वा नटा-नाटकानां नाटयितारस्तेषां प्रेक्षा नटप्रेक्षा, नृत्यप्रेक्षेति वा, नृत्यन्ति स्म नृत्या- नृत्य विधायिनस्तेषां प्रेक्षा नृत्यप्रेक्षा इति वा, जलप्रेक्षेति वा, जल्ला - वरत्राखेलका राजस्तोत्रपाठका इत्यपरे तेषां प्रेक्षा जलप्रेक्षा, मल्लप्रेक्षेति वा, मल्लाः- प्रतीताः, मौष्टिकप्रेक्षेति वा, मौष्टिका : मलविशेषा एव ये. मुष्टिभि: प्रहरन्ति, विडम्वकप्रेक्षेति वा, विडम्बका - विदूषका नानावेपकारिण इत्यर्थः, कथकप्रेक्षेति वा, कथकाः प्रतीताः, लवकप्रेक्षेति वा, लवका ये उत्प्लुत्य गर्त्तादिकं झम्पाभिर्लक्ष्यन्ति नद्यादिकं वा तरन्ति तेषां प्रेक्षा लवकप्रेक्षा, लासकप्रेक्षेति वा, लासका ये रास