________________
वेन्द्रियगात्रप्रह्लादनीयं, वैशधेन तत्प्रहादहेतुत्वात् एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्रूप : पुष्पफलानामास्वाद : ?, भगवानाह - गौतम ! नायमर्थः समर्थः तेषां पुष्पफलानामितश्चक्रवर्त्तिभोजनादिष्टतरादिरेवास्वादः प्रज्ञप्तः ॥ ' ते णं भंते!" इत्यादि, ते भदन्त !! मनुजास्तं - अनन्तरोदितस्वरूपमाहारमाहार्य 'क्व वसतौ' कस्मिन्नुपाश्रये 'उपयान्ति ?' उपगच्छन्ति, भगवानाह - गौतम! 'वृक्षगृहालयाः वृक्षरूपाणि गृहाणि आलया-आश्रया येषां ते वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'ते णं भंते ' इत्यादि, ते भदन्त ! वृक्षाः 'किंसंस्थिताः ' किमवसंस्थिताः प्रज्ञप्ता: १, भगवानाह - गौतम ! अप्येककाः कूटाकार संस्थिताः शिखराकारसंस्थिता इत्यर्थ: अप्येककाः प्रेक्षागृहसंस्थिताः अप्येककाश्छत्रसंस्थिताः अप्येकका ध्वजसंस्थिताः अप्येककाः स्तूपसंस्थिताः अप्येककारतोरणसंस्थिताः अप्येकका गोपुरसंस्थिताः, गोभिः पूर्यत इति गोपुरं-पुरद्वारं, अत्येकका वेदिका संस्थानसंस्थिताः, वेदिका -- उपवेशनयोग्या भूमिः, अप्येकका चोप्पालसंस्थिता इत्यर्थः, चोप्पालं नाम मत्तवारणं, अप्येकका अट्टालकसंस्थिताः अट्टालक :- प्राकारस्यो - पर्याश्रयविशेषः, अप्येकका वीथीसंस्थिताः वीथी - मार्गः, अप्येककाः प्रासादसंस्थिताः, राज्ञां देवतानां च भवनानि प्रासादा: उत्सेधवहुला वा प्रासादास्ते चोभयेऽपि पर्यन्तशिखराः, हर्म्य-शिखररहितं धनवतां भवनं, अप्येकका गवाक्षसंस्थिताः, गवाक्षो वातायनं, अप्येकका वालाप्रपोतिकासंस्थिताः, वालाग्रपोतिका नाम तडागादिषु जलस्योपरि प्रासादः, अप्येकका वलभी संस्थिताः, वलभी - गृहाणामाच्छादनं, अप्येकका वरभवन विशिष्टसंस्थानसंस्थिताः, वरभवनं सामान्यतो विशिष्टं गृहं तस्येव यद् विशिष्टं संस्थानं तेन संस्थिताः, शुभा शीतला च छाया येषां ते शुभशीतलच्छायास्ते द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अत्थि णं भंते !" इत्यादि, सन्ति | भदन्त ! उत्तरकुरुषु कुरुषु गृहाणि वाऽस्मद्गृहकल्पानि गृहायतनानि - तेषु गृहेषु तेषां मनुष्याणामायतनानि - गमनानि गृहायतनानि ?,