Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
कान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डास्तेषां प्रेक्षा लासकप्रेक्षा, आख्यायकप्रेक्षेति वा ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां प्रेक्षा आख्यायकप्रेक्षा, लङ्गप्रेक्षेति वा, लगा ये महावंशाप्रमारु नृत्यन्ति तेषां प्रेक्षा लप्रेक्षा, प्रेक्षेति वा, ये चित्रपट्टिकादिहस्ता भिक्षां चरन्ति ते मलास्तेषां प्रेक्षा महप्रेक्षा, 'तूणइलपेच्छाइ वा' इति तूणइल्ला - तूणाभिधानवाद्य विशेपवन्तस्तेषां प्रेक्षा तूणइलप्रेक्षा, तुम्बवीणाप्रेक्षेति वा, तुम्बयुक्ता वीणा येषां ते तुम्यवीणा:-तुम्बवीणावादकास्तेपां प्रेक्षा, 'कावपिच्छाइ वे'ति कावा :- कावडिवाहका तेपां प्रेक्षा, मागधप्रेक्षेति वा, मागधा - बन्दिभूतास्तेषां प्रेक्षा मागधप्रेक्षेति वा ?, भगवानाह - नायमर्थः समर्थो, व्यपगतकौतुकास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु इन्द्रमह इति वा, इन्द्रः- शक्रस्तस्य महः - प्रतिनियत दिवसभावी उत्सवः स्कन्दमह इति वा, स्कन्दः - कार्त्तिकेयः, रुद्रमह इति वा, रुद्रः प्रतीतः, शिवमह इति वा, शिवो-देवताविशेषः, वैश्रमणमह इति वा, वैश्रमण:- उत्तरदिग्लोकपालः, नागमह इति वा, नागो-भवनपतिविशेषः, यक्षमह इति वा भूतमह इति वा, यक्षभूतौ त्र्यन्तरविशेषौ मकुन्दमह इति वा, मकुन्दो - बलदेवः, कूपमह इति वा ताकमह इति वा नदीम इति वा हृदमह इति वा पर्वतमद्द इति वा वृक्षमह इति वा चैत्यमद्द इति वा स्तूपमह इति वा ?, कूपादयः प्रतीताः, भगवानाह - नायमर्थः समर्थो, व्यपगतमहमहिमास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'अत्थि णं भंते ।' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुपु शकटानीति वा, शकटानि - प्रतीतानि, रथा वा, रथा द्विविधा-यानरथाः सङ्ग्रामरथाच, तत्र सङ्ग्रामरथस्य प्राकारानुकारिणी फलकमयी वेदिकाऽपरस्य तु न भवतीति विशेषः, यानानीति वा, यानं-गयादि, युग्यानीति वा, युग्यं -गोल विषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानं, गिल्लय इति वा, गिल्लिईस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव, थिल्लय इति वा,
३ प्रतिपत्ती देवकुर्वधिकारः उद्देशः २
सू० १४७
॥ २८१ ॥

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824