________________
विजयेन वर्धापयन्ति, वर्धापयित्वा महार्थ महार्घ महाई विपुलमिन्द्राभिपेकयोग्य क्षीरोदकादि 'उपनयन्ति' समर्पयन्ति ॥ 'तएण'मित्यादि, ततो णमिति वाक्यालकारे तं विजयं देवं चत्वारि देवसामानिकसहस्राणि चतस्रोऽयमहिष्यः सपरिवारास्तिस्रः पर्पदो यथाक्रममष्टदशद्वादशदेवसहस्रपरिमाणाः सप्तानीकानि सप्तानीकाधिपतय: पोडश आमरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवा देव्यश्च तैः-तद्गतदेवजनप्रसिद्धैः स्वाभाविकैवैकुर्विकैश्च वरकमलप्रतिस्थानैः सुरभिवरवारिप्रतिपूर्णैश्चन्दनकृतचचीकै: 'आविद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूत्रतन्तुभिः पद्मोत्पलपिधानः सुकुमारकरतलपरिगृहीतैरनेकसहस्रसायैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानाम् , अष्टसहस्रेण रूप्यमयानाम् , अष्टसहस्रेण मणिमयानाम् ,
अष्टसहस्रेण सुवर्णरूप्यमयानाम् , अष्टसहस्रेण सुवर्णमणिमयानाम् , अष्टसहस्रेण रूप्यमणिमयानाम् , अष्टसहस्रेण सुवर्णरूप्यमणिमयाहानाम् , अष्टसहस्रेण भौमेयानां, सर्वसङ्ख्ययाऽष्टभिः सहस्रैश्चतुःपष्टयधिकैः, तथा 'सर्वोदकैः' सर्वतीर्थनद्याादकैः सर्वतुवरैः सर्वपुष्पैः |
सर्वगन्धैः सर्वमाल्यैः सर्वोपधिसिद्धार्थकैश्च 'सर्वां ' परिवारादिकया 'सर्वधुत्या' यथाशक्ति विस्फारितेन शरीरतेजसा 'सर्ववलेन'। सामस्येन स्वस्वहस्त्यादिसैन्येन 'सर्वसमुदयेन' स्वस्वाभियोग्यादिसमस्तपरिवारण 'सर्वादरेण' समस्तयावच्छक्तितोलनेन 'सर्वविभूत्या' स्वस्खाभ्यन्तरवैक्रियकरणादिवायरत्नादिसम्पदा, तथा 'सर्वविभूषया' यावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणं ति | सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम इह स्वनायकविषयबहुमानख्यापनार्थपरा स्वनायककार्यसम्पादनाय यावच्छक्ति त्वरितत्वरिता प्रवृत्तिः, सर्वपुष्पवस्त्रगन्धमाल्यालङ्कारेण, अत्र गन्धा-वासा माल्यानि-पुष्पदामानः अलङ्कारा-आभरणानि तत: समाहारो द्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सह सर्वशब्देन विशेपणसमासः, 'सव्वदिव्यतुडियसदनि