________________
ना
भ०
गि
त्तिः
४ ॥
सिन्धुरक्तारक्तवतीषु महानदीषु नद्युदकमुभयतटमृत्तिकां च गृहन्ति, ततः क्षुल्लहिमवच्छिखरिषु समागत्य सर्वतुवरान् -कपायान् सर्वाणि जातिभेदेन पुष्पाणि सर्वान् 'गन्धान्' गन्धवासादीन् सर्वाणि माल्यानि - प्रथितादिभेदभिन्नानि सर्वौषधीः सिद्धार्थकांचं गृहन्ति, गृहीत्वा तदनन्तरं पद्मदपुण्डरीकइदेषूपागत्य तदुदकमुत्पलादीनि च गृहन्ति, ततो हैमवतैरण्यवतेषु वर्षेषु रोहितारोहितांशासुवर्णकूलारूप्यकूलासु महानदीषु नद्युदकमुभयतटमृत्तिकां तदनन्तरं शब्दापातिविकटापातिवृत्त वैताढ्येषु सर्वतुबरादीन् ततो महाहिमवद्रूपिवर्षधर पर्वतेषु सर्ववरादीन् ततो महापद्ममहापौण्डरीकइदेषु हदोदकमुत्पलादीनि च तदनन्तरं हरिवर्षरम्यकवर्षेषु हरकान्ता - | हरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकम् उभयतटमृत्तिकां च ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताढ्येषु सर्वतुबरादीन् ततो निषघनीलवर्षधरपर्वतेषु सर्वतुबरादीन् तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहाहदेषु ह्रदोदकमुत्पलादीनि च ततः पूर्वविदेहापर| विदेहेषु शीताशीतोदामहानदीषु नद्युदकम् उभयतटमृत्तिकां च तदनन्तरं सर्वेषु चक्रवर्त्तिविजेतव्येषु मागधवरदामप्रभासाख्यतीर्थेषु | तीर्थोदकानि तीर्थमृत्तिकाश्च ततः सर्वेषु वक्षस्कारपर्वतेषु सर्वतुबरादीन् तदनन्तरं सर्वास्वन्तरनदीषु नद्युदकमुभयतटमृत्तिकाश्च ततो मन्दर पर्वते भद्रशालवने सर्वतुबरादीन् ततो नन्दनवने सर्वतुबरादीन सरसं च गोशीर्षचन्दनं ततः सौमनसवने सर्वतुबरादीन सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, ततः पण्डकवने सर्वतुबरपुष्पगन्धमाल्यसरसगोशीर्षचन्दनदिव्यसुमनोदामानि 'दद्दरमलए सुगंधिए य गिण्हंति' इति दर्दर:- चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितं तत्र पकं वा यन्मलयोद्भवतया प्रसिद्धत्वान्मलयं-श्रीखण्डं येषु तान् ' सुगन्धान्' परमगन्धोपेतान् गन्धान् गृह्णन्ति, गृहीला एकत्र मिलन्ति, मिलित्वा तया उत्कृष्टया दिव्यया देवगत्या यत्रैव विजया राजधानी यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति, उपागत्य च करतलपरिगृहीतां शिरस्यावर्त्तिकां मस्तकेऽञ्जलिं कृत्वा विजयं देवं जयेन
३ प्रतिपचौ विजयदेवाभिषेकः उद्देशः २
सू० १४१
॥ २४४ ॥