________________
इत्यादि, क भदन्त ! संमूच्छिममनुष्याः संमूर्च्छन्ति ?, भगवानाह-अन्तर्मनुष्यक्षेत्रे इत्यादि सूत्रं प्राग्वद्भावनीयं यावत् अंतोमुहुत्तद्धाउया चेव कालं पकरेंति, उपसंहारमाह-'सेत्तं संमुच्छिममणुस्सा' ॥ सम्प्रति गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह
से किं तं गन्भवतियमणुस्सा?, २ तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा ॥ (सू० १०७) से किं तं अंतरदीवगा?, २ अट्ठावीसतिविधा पण्णत्ता, तंजहा-एगुरुया आभासिता वेसाणिया णांगोली हयकण्णगा० आयंसमुहा० आसमुहा० आसकपणा० उक्कामुहा० घणदंता जाव सुद्धदंता ॥ (सू० १०८) . मेकित मित्यादि, अथ के ते गर्भव्युत्क्रान्तिकमनुष्याः ?, सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यास्त्रिविधाः प्रज्ञप्तास्तद्यथा-कर्मभूमका अकर्मभमका आन्तरद्वीपकाः, तत्र 'अस्त्यनानुपूर्व्यपी'ति न्यायप्रदर्शनार्थमान्तरद्वीपकप्रतिपादनार्थमाह-से किं त'मित्यादि, अथ के ते आन्तरद्वीपका:?, लवणसमुद्रमध्ये अन्तरे अन्तरे द्वीपा अन्तरद्वीपा अन्तरद्वीपेषु भवा आन्तरद्वीपकाः, 'राष्ट्रेभ्यः' इति बुञ् , सूरिराह-आन्तरद्वीपका अष्टाविंशतिविधा: प्रज्ञप्ताः, तानेव तद्यथेत्यादिना नामग्राहमुपदर्शयति-एकोरुकाः १ आभाषिकाः २ वैपाणिकाः ३ नाङ्गोलिकाः ४ हयकर्णाः ५ गजकर्णाः ६ गोकर्णाः ७ शष्कुलकर्णाः ८ आदर्शमुखाः ९ मेण्ढमुखाः १० अयोमुखाः १११ गोमुखाः १२ अश्वमुखाः १३ हस्तिमुखाः १४ सिंहमुखाः १५ व्याघ्रमुखाः १६ अश्वकर्णाः १७ सिंहकर्णाः १८ अकर्णाः १९ कर्णप्रावरणा: २० उल्कामुखा: २१ मेघमुखाः २२ विद्युदन्ताः २३ विद्युजिह्वाः २४ घनदन्ताः २५ लष्टदन्ताः २६ गूढदन्ताः २७