Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahan Aradhana Kendra
सूत्रकृताङ्गे
२ श्रुतस्क न्धे शीलाङ्कीया त्तिः
॥३९२॥
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
| यथावस्थिततच्चाविभवको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणा न कंचिद्रहमः काणकुण्टोद्घट्टनादिप्रकारेण, | केवलं स्वपरस्वरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावने परापवादः, तथा चोक्तम् - "नेत्रैर्निरीक्ष्य बिलकण्टककीटसर्पान्, | सम्यक् पथा व्रजेति तान्परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् सम्यग्विचारयत कोऽत्र परापवादः १ || १ ||" इत्यादि । | यदिचैकान्तवादिनामेव - अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं परस्परगर्हाख्यो दोषो, नास्माकमनेकान्तवादिनां सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् । एतदेव श्लोकपश्चार्द्धेन दर्शयति- 'स्वत' इति, स्वद्रव्यक्षे|त्रकालभावैरस्ति, तथा 'परत' इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगमं दूषयन्तो गर्हामोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपण| तस्तु रागद्वेषविरहान्न किञ्चिद्दर्हाम इति स्थितम् ॥ १२ ॥ एतदेव स्पष्टतरमाह-न कञ्चन श्रमणं ब्राह्मणं वा स्वरूपेण - जुगुप्सि - | ताङ्गावयवोद्घट्टनेन जात्या तल्लिङ्गग्रहणोद्घट्टनेन वा 'अभिधारयामो' गर्हणाबुद्ध्योद्ययामः केवलं 'स्वदृष्टिमार्ग' तदभ्युपगतं दर्शनं 'प्रादुष्कुर्मः' प्रकाशयामः, तद्यथा - " ब्रह्मा लूनशिरा हरिदेशि सरुग्ण्यालुप्तशिनो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । खर्नाथोऽपि विसंस्थलः खलु वपुः संस्थैरुपस्यैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभ्रूणामपि ॥ १ ॥ इत्यादि । एतच्च तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयित्वा स्वपक्षसाध| नार्थं श्लोकपश्चार्द्धेनाह - अयं 'मार्गः' पन्थाः सम्यग्दर्शनादिकः 'कीर्त्तितो' व्यावर्णितः, कैः ? - 'आर्यैः सर्वज्ञैस्त्याज्यधर्मदूरवतिभिः किंभूतो धर्मो :- नास्मादुत्तरः- प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतत्वाद्यथावस्थित जीवादिपदार्थखरूपनिरूपणाच्च, १ व्रजत प्र० क्रियाऽभिव्याहारे तप्रत्ययः लुड्डा । २ काणकुण्डादि ।
For Private And Personal
६ आर्द्रका
ध्ययन.
॥३९२॥

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859