Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
a nmandir
सूत्रकृताङ्गे २श्रुतस्कन्धे शीला
७ नालन्दीयाध्य
॥४१॥
सखेनोत्पन्नेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्तं 'विहाय' परित्यज्य प्रत्याख्यानं करोति, तदिह भूतबविशेषणात्स्या- वरपर्यायापनवधेऽपि न प्रतिज्ञाविलोपः । तथा 'नान्यत्राभियोगेने ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति । तथा गृहपति| चौरविमोक्षणतयेति, एतच्च भवद्भिः सम्यगुक्तं, एतदपि त्रसकाये भूतखविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा | क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेपि न प्रतिज्ञाविलोपः तथा त्रसभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः । तदेवं विद्यमाने सति 'भाषायाः' प्रत्याख्यानवाचः 'पराक्रमें भूतविशेषणाद्दोषपरिहारसामर्थ्य एवं पूर्वोक्तया नीत्या सति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोभावा 'परं' श्रावकादिकं निर्विशेषणमेव प्रत्याख्यापयन्ति, तेषां प्रत्याख्यानं ददतां मृषावादो भवति, गृह्णतां चावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः असदीयोपदेशाभ्युपगमो भूतखविशेषणविशिष्टः पक्षः किं भवतां 'नो' नैव 'नैयायिको'न्यायोपपन्नो भवति ?, इदमुक्तं भवति-भूतबविशेषणेन हि असान् स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते-एवमेतद्यथा मया व्याख्यातम् । एवमभिहितो गौतमः सदाचं सवादं वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीत , तद्यथा नोखल्वायुष्मनुदकासभ्यमेतदेवं यद्यथा खयोच्यते तद्रोचत इति, इदमुक्तं भवति-यदिदं त्रसकायविरतौ भूतखविशेषणं क्रियते तन्निरर्थकतयाऽसभ्यं न रोचत इति । तदेवं व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणखेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानं, खतः कुर्वन्तः कारयन्तश्चैवमिति–सविशेषणं प्रत्याख्यानं भाषन्ते, तथैवमेव सविशेषणप्रत्याख्यानप्ररूपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु ते श्रमणा वा निर्ग्रन्था वा यथार्थी भाषा भाषन्ते, अपिखनुताप
For Private And Personal
-

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859