Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahaveedhana Kendra
www.kcbatrth.org
Acharya Shri Kailashga to
mandir
सूत्रकृताङ्ग २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥४२४॥
यानि, तत्र यत्र यत्र त्रसास्तत्रादानशः–आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीय, यत्र तु स्थावरास्त-18 ७नाकवार्थाय दण्डो न निक्षिप्तो-न परित्यक्तोऽनर्थाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु स्वबुद्ध्या विधेयेति ॥ तदेवं । न्दीयाध्य बहुभिदृष्टान्तः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासंबद्धतांचोद्यस्य सूत्रेणैव दर्शयितुमाह-'भगवं च णं उदाहु रित्यादि, भगवान् गौतमखाम्युदकं प्रत्येतदाह, तद्यथा-नैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्ते काले भाव्यं नाप्येतद्वर्तमानकाले भवति ये (यत्) त्रसाः प्राणाः सर्वथा निर्लेपतया खजात्युच्छेदेनोच्छेत्स्यन्ति-स्थावरा भविष्यन्तीति, तथा स्थावराश्च प्राणिनः कालत्रयेऽपि नैव समुच्छेत्स्यन्ति-त्रसा भविष्यन्ति, यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्यतरेषामितरत्र सद्भावः, तथाहि-न ह्येवंभूतः संभवोऽस्ति यदुत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरश्चा मनुष्यदेवानां च सर्वदाऽप्यभावः, एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपि नारकादयस्त्रसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानामनन्तलादेव नासंख्येयेषु त्रसेप्रूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवच्छिन्नैखसैः स्थावरैश्च प्राणिभिर्यद्वदत यूयमन्यो वा कश्चिद्वदति, तद्यथा-नास्त्यसौ | पर्यायो यत्र श्रमणोपासकस्यैकत्रसविषयोऽपि दण्डपरित्याग इति, तदेतदुक्तनीत्या सर्वमशोभनमिति ॥ सांप्रतमुपसंजिघृक्षुराह
भगवं च णं उदाहु आउसंतो! उद्गा जे खलु समणं वा माहणं वा.परिभासेइ मित्ति मन्नंति आगमि- ॥४२४॥ त्ता णाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्टइ, जे खलु समणं वा माहणं वा णो परिभासइ मित्ति मन्नंति आगमित्ता णाणं आगमित्ता
For Private And Personal

Page Navigation
1 ... 850 851 852 853 854 855 856 857 858 859